Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

Vilāsa 6

snāpanikaḥ

6.201

Śloka

यज्ञैर् दानैस् तपभिश् च स्तवैः प्रीतिर् न मेऽर्जुन । सन्तुष्टिस् तु न चान्येन विना नाम-सहस्रकम् ॥ २०१ ॥

Transliteration

yajñair dānais tapabhiś ca stavaiḥ prītir na me’rjuna । santuṣṭis tu na cānyena vinā nāma-sahasrakam ॥ 201 ॥

6.202

Śloka

स्तवं नाम-सहस्राख्यं ये न जानन्ति वै कलौ । भ्रमन्ति ते नर्¸अ लोके सर्व-धर्म-बहिष्कृताः ॥ २०२ ॥

Transliteration

stavaṁ nāma-sahasrākhyaṁ ye na jānanti vai kalau । bhramanti te nar¸a loke sarva-dharma-bahiṣkṛtāḥ ॥ 202 ॥

6.203

Śloka

स्तवं नाम-सहस्राख्यं लिखितं यस्य वेश्मनि । पूज्यते मम सान्निध्ये पूजां गृह्णामि तस्य वै ॥ २०३ ॥

Transliteration

stavaṁ nāma-sahasrākhyaṁ likhitaṁ yasya veśmani । pūjyate mama sānnidhye pūjāṁ gṛhṇāmi tasya vai ॥ 203 ॥

6.204

Śloka

यस्मिन् नाम-सहस्रं मे गृहे तिष्ठति सर्वदा । लिखितं पाण्डव-श्रेष्ठ तत्र नो विशते कलिः ॥ २०४ ॥

Transliteration

yasmin nāma-sahasraṁ me gṛhe tiṣṭhati sarvadā । likhitaṁ pāṇḍava-śreṣṭha tatra no viśate kaliḥ ॥ 204 ॥

6.205

Śloka

तस्मात् त्वम् अपि कौन्तेय मद्-भक्तो मन्-मना भव । पठन् नाम-सहस्रं मे सर्वान् कामान् अवाप्स्यसि ॥ २०५ ॥

Transliteration

tasmāt tvam api kaunteya mad-bhakto man-manā bhava । paṭhan nāma-sahasraṁ me sarvān kāmān avāpsyasi ॥ 205 ॥

6.206

Śloka

अहम् आराधितः पूर्वं ब्रह्मणा लोक-कर्तृणा । ततो नाम-सहस्रं मे प्राप्तं लोक-हितं परम् ॥ २०६ ॥

Transliteration

aham ārādhitaḥ pūrvaṁ brahmaṇā loka-kartṛṇā । tato nāma-sahasraṁ me prāptaṁ loka-hitaṁ param ॥ 206 ॥

6.207

Śloka

नारदेन ततः पूर्वं प्राप्तं च परमेष्ठिनः । नारदेन ततः प्रोक्त-वृषीणाम् ऊर्ध्व-रेतसाम् ॥ २०७ ॥

Transliteration

nāradena tataḥ pūrvaṁ prāptaṁ ca parameṣṭhinaḥ । nāradena tataḥ prokta-vṛṣīṇām ūrdhva-retasām ॥ 207 ॥

6.208

Śloka

ऋषिभिस् तु महाबाहो देवलोके प्रकाशितम् । मर्त्य-लोके मनुष्याणां व्यासेन परिभाषितम् ॥ २०८ ॥

Transliteration

ṛṣibhis tu mahābāho devaloke prakāśitam । martya-loke manuṣyāṇāṁ vyāsena paribhāṣitam ॥ 208 ॥

6.209

Śloka

तपसोग्रेण महता शङ्करेण महात्मना । मत्-प्रसादाद् अनुप्राप्तं गुह्यानाम् उत्तमोत्तमम् ॥ २०९ ॥

Transliteration

tapasogreṇa mahatā śaṅkareṇa mahātmanā । mat-prasādād anuprāptaṁ guhyānām uttamottamam ॥ 209 ॥

6.210

Śloka

दत्तं भवान्यै रुद्रेण नाम्नां मे हि सहस्रकम् । विश्रुतं त्रिषु लोकेषु मया ते परिकीर्तितम् ॥ २१० ॥

Transliteration

dattaṁ bhavānyai rudreṇa nāmnāṁ me hi sahasrakam । viśrutaṁ triṣu lokeṣu mayā te parikīrtitam ॥ 210 ॥

6.211

Śloka

अशेषार्तिहरं पार्थ मम नाम-सहस्रकम् । सद्यः प्रीति-करं पुण्यं सुराणाम् अमृतं यथा ॥ २११ ॥

Transliteration

aśeṣārtiharaṁ pārtha mama nāma-sahasrakam । sadyaḥ prīti-karaṁ puṇyaṁ surāṇām amṛtaṁ yathā ॥ 211 ॥

6.212

Śloka

अष्टादश-पुराणानां सारेम् एतद् धनञ्जय । मयोद्धृत्य समाख्यातं तव नाम-सहस्रकम् ॥ २१२ ॥

Transliteration

aṣṭādaśa-purāṇānāṁ sārem etad dhanañjaya । mayoddhṛtya samākhyātaṁ tava nāma-sahasrakam ॥ 212 ॥

6.213

Śloka

सहस्र-नाम-माहात्म्यं देवो जानाति शङ्करः । सहस्र-नाम-माहात्म्यं यः पठेच् छृणुयाद् अपि । अपराध-सहस्रेण न स लिप्येत् कदाचन ॥ २१३ ॥

Transliteration

sahasra-nāma-māhātmyaṁ devo jānāti śaṅkaraḥ । sahasra-nāma-māhātmyaṁ yaḥ paṭhec chṛṇuyād api । aparādha-sahasreṇa na sa lipyet kadācana ॥ 213 ॥

6.214

Śloka

गीता सुगीता कर्तव्या किम् अन्यैः शास्त्र-विस्तरैः । या स्वयं पद्म-नाभस्य मुख-पद्माद् विनिःसृता ॥ २१४ ॥

Transliteration

gītā sugītā kartavyā kim anyaiḥ śāstra-vistaraiḥ । yā svayaṁ padma-nābhasya mukha-padmād viniḥsṛtā ॥ 214 ॥

6.215

Śloka

सर्व-शास्त्र-मयी गीता सर्व-देव-मयी यतः । सर्व-धर्म-मयी यस्मात् तस्माद् एतां समभ्यसेत् ॥ २१५ ॥

Transliteration

sarva-śāstra-mayī gītā sarva-deva-mayī yataḥ । sarva-dharma-mayī yasmāt tasmād etāṁ samabhyaset ॥ 215 ॥

6.216

Śloka

शालग्राम-शिलाग्रे तु गीताध्यायं पठेत् तु यः । मन्वन्तर-सहस्राणि वसते ब्रह्मणः पुरे ॥ २१६ ॥

Transliteration

śālagrāma-śilāgre tu gītādhyāyaṁ paṭhet tu yaḥ । manvantara-sahasrāṇi vasate brahmaṇaḥ pure ॥ 216 ॥

6.217

Śloka

हत्वा हत्वा जगत् सर्वं मुषित्वा स-चराचरम् । पापैर् न लिप्यते चैव गीताध्यायी कथञ्चन ॥ २१७ ॥

Transliteration

hatvā hatvā jagat sarvaṁ muṣitvā sa-carācaram । pāpair na lipyate caiva gītādhyāyī kathañcana ॥ 217 ॥

6.218

Śloka

तेनेष्टं क्रतुभिः सर्वैर् दत्तं तेन गवायुतम् । गीताम् अभ्यस्यता नित्यं तेनाप्तं पदम् अव्ययम् ॥ २१८ ॥

Transliteration

teneṣṭaṁ kratubhiḥ sarvair dattaṁ tena gavāyutam । gītām abhyasyatā nityaṁ tenāptaṁ padam avyayam ॥ 218 ॥

6.219

Śloka

गीताध्यायं पठेद् यस् तु श्लोकं श्लोकार्धम् एव वा । भव-पाप-विनिर्मुक्तो याति विष्णोः परं पदम् ॥ २१९ ॥

Transliteration

gītādhyāyaṁ paṭhed yas tu ślokaṁ ślokārdham eva vā । bhava-pāpa-vinirmukto yāti viṣṇoḥ paraṁ padam ॥ 219 ॥

6.220

Śloka

यो नित्यं विश्व-रूपाख्यम् अध्यायं पठति द्विजः । विभूतिं देव-देवस्य तस्य पुण्यं वदाम्य् अहम् ॥ २२० ॥

Transliteration

yo nityaṁ viśva-rūpākhyam adhyāyaṁ paṭhati dvijaḥ । vibhūtiṁ deva-devasya tasya puṇyaṁ vadāmy aham ॥ 220 ॥

6.221

Śloka

वेदैर् अधीतैर् यत् पुण्यं सेतिहासैः पुरातनैः । श्लोकेनैकेन तत् पुण्यं लभते नात्र संशयः ॥ २२१ ॥

Transliteration

vedair adhītair yat puṇyaṁ setihāsaiḥ purātanaiḥ । ślokenaikena tat puṇyaṁ labhate nātra saṁśayaḥ ॥ 221 ॥

6.222

Śloka

आब्रह्म-स्तम्ब-पर्यन्तं जगत्-तृप्तिं करोति सः । विश्व-रूपं सदाध्यायं विभूतिं च पठेत् तु यः ॥ २२२ ॥

Transliteration

ābrahma-stamba-paryantaṁ jagat-tṛptiṁ karoti saḥ । viśva-rūpaṁ sadādhyāyaṁ vibhūtiṁ ca paṭhet tu yaḥ ॥ 222 ॥

6.223

Śloka

अहन्य् अहनि यो मर्त्यो गीताध्यायं पठेत् तु वै । द्वात्रिंशद्-अपराधांस् तु क्षमते तस्य केशवः ॥ २२३ ॥

Transliteration

ahany ahani yo martyo gītādhyāyaṁ paṭhet tu vai । dvātriṁśad-aparādhāṁs tu kṣamate tasya keśavaḥ ॥ 223 ॥

6.224

Śloka

लिखित्वा वैष्णवानां च गीता-शास्त्रं प्रयच्छति । दिने दिने च यजते हरिं चात्र न संशयः ॥ २२४ ॥

Transliteration

likhitvā vaiṣṇavānāṁ ca gītā-śāstraṁ prayacchati । dine dine ca yajate hariṁ cātra na saṁśayaḥ ॥ 224 ॥

6.225

Śloka

चतुर्णाम् एव वेदानां सारम् उद्धृत्य विष्णुना । त्रैलोक्यस्योपकाराय गीता-शास्त्रं प्रकाशितम् ॥ २२५ ॥

Transliteration

caturṇām eva vedānāṁ sāram uddhṛtya viṣṇunā । trailokyasyopakārāya gītā-śāstraṁ prakāśitam ॥ 225 ॥

6.226

Śloka

भारतामृत-सर्वस्वं विष्णोर् वक्त्राद् विनिःसृतम् । गीता-गङ्गोदकं पीत्वा पुनर् जन्म न विद्यते ॥ २२६ ॥

Transliteration

bhāratāmṛta-sarvasvaṁ viṣṇor vaktrād viniḥsṛtam । gītā-gaṅgodakaṁ pītvā punar janma na vidyate ॥ 226 ॥

6.227

Śloka

धर्मं चार्थं च कामं च मोक्षं चापीच्छता सदा । श्रोतव्या पठनीया च गीता कृष्ण-मुखोद्गता ॥ २२७ ॥

Transliteration

dharmaṁ cārthaṁ ca kāmaṁ ca mokṣaṁ cāpīcchatā sadā । śrotavyā paṭhanīyā ca gītā kṛṣṇa-mukhodgatā ॥ 227 ॥

6.228

Śloka

यो नरः पठते नित्यं गीता-शास्त्रं दिने दिने । विमुक्तः सर्व-पापेभ्यो याति विष्णोः परं पदम् ॥ २२८ ॥

Transliteration

yo naraḥ paṭhate nityaṁ gītā-śāstraṁ dine dine । vimuktaḥ sarva-pāpebhyo yāti viṣṇoḥ paraṁ padam ॥ 228 ॥

6.229

Śloka

विचारयन्ति ये शास्त्रं वेदाभ्यास-रताश् च ये । पुराणं संहितां ये च श्रावयन्ति पठन्ति च ॥ २२९ ॥

Transliteration

vicārayanti ye śāstraṁ vedābhyāsa-ratāś ca ye । purāṇaṁ saṁhitāṁ ye ca śrāvayanti paṭhanti ca ॥ 229 ॥

6.230

Śloka

व्याकुर्वन्ति स्मृतिं ये च ये धर्म-प्रतिबोधकाः । वेदान्तेषु निषण्णा ये तैर् इयं जगती धृता ॥ २३० ॥

Transliteration

vyākurvanti smṛtiṁ ye ca ye dharma-pratibodhakāḥ । vedānteṣu niṣaṇṇā ye tair iyaṁ jagatī dhṛtā ॥ 230 ॥

6.231

Śloka

तत्-तद्-अभ्यास-माहात्म्यैः सर्वे ते हत-किल्बिषाः । गच्छन्ति ब्रह्मणो लोकं यत्र मोहो न विद्यते ॥ २३१ ॥

Transliteration

tat-tad-abhyāsa-māhātmyaiḥ sarve te hata-kilbiṣāḥ । gacchanti brahmaṇo lokaṁ yatra moho na vidyate ॥ 231 ॥

6.232

Śloka

अन्तं गतोऽपि वेदानां सर्व-शास्त्रार्थ-वेद्य् अपि । पुंसोऽश्रुत-पुराणस्य न सम्यग् गति-दर्शनम् ॥ २३२ ॥

Transliteration

antaṁ gato’pi vedānāṁ sarva-śāstrārtha-vedy api । puṁso’śruta-purāṇasya na samyag gati-darśanam ॥ 232 ॥

6.233

Śloka

वेदार्थाद् अधिकं मन्ये पुराणार्थं च भामिनि । पुराणम् अन्यथा कृत्वा तिर्यग्-योनिम् अवाप्नुयात् ॥ २३३ ॥

Transliteration

vedārthād adhikaṁ manye purāṇārthaṁ ca bhāmini । purāṇam anyathā kṛtvā tiryag-yonim avāpnuyāt ॥ 233 ॥

6.234

Śloka

पुराणेष्व् अर्थ-वादत्वं ये वदन्ति नराधमाः । तैर् अर्जितानि पुण्यानि क्षयं यान्ति द्विजोत्तमाः ॥ २३४ ॥

Transliteration

purāṇeṣv artha-vādatvaṁ ye vadanti narādhamāḥ । tair arjitāni puṇyāni kṣayaṁ yānti dvijottamāḥ ॥ 234 ॥

6.235

Śloka

पुराणेषु द्विज-श्रेष्ठाः सर्व-धर्म-प्रवक्तृषु । प्रवदन्त्य् अर्थ-वादत्वं ये ते नरक-भाजनाः ॥ २३५ ॥

Transliteration

purāṇeṣu dvija-śreṣṭhāḥ sarva-dharma-pravaktṛṣu । pravadanty artha-vādatvaṁ ye te naraka-bhājanāḥ ॥ 235 ॥

6.236

Śloka

अनायासेन यः पुण्यानीच्छतीह द्विजोत्तमाः । श्रोतव्यानि भक्त्या तेनैव पुराणानि न संशयः ॥ २३६ ॥

Transliteration

anāyāsena yaḥ puṇyānīcchatīha dvijottamāḥ । śrotavyāni bhaktyā tenaiva purāṇāni na saṁśayaḥ ॥ 236 ॥

6.237

Śloka

पुरार्जितानि पापानि नशम् आयान्ति तस्य वै । पुराण-श्रवणे बुद्धिस् तस्यैव भवति ध्रुवम् ॥ २३७ ॥

Transliteration

purārjitāni pāpāni naśam āyānti tasya vai । purāṇa-śravaṇe buddhis tasyaiva bhavati dhruvam ॥ 237 ॥

6.238

Śloka

पुराणे वर्तमानेऽपि पाप-पाशेन यन्त्रितः । अनादृत्यान्य-गाथासु सक्त-बुद्धिः प्रवर्तते ॥ २३८ ॥

Transliteration

purāṇe vartamāne’pi pāpa-pāśena yantritaḥ । anādṛtyānya-gāthāsu sakta-buddhiḥ pravartate ॥ 238 ॥

6.239

Śloka

स्नान-मुद्रां प्रदर्श्याथ शुद्ध-सूक्ष्माङ्ग-वाससा । शनैः संमार्ज्य गात्राणि दिव्ये वस्त्रे समर्पयेत् ॥ २३९ ॥

Transliteration

snāna-mudrāṁ pradarśyātha śuddha-sūkṣmāṅga-vāsasā । śanaiḥ saṁmārjya gātrāṇi divye vastre samarpayet ॥ 239 ॥

6.240

Śloka

मध्य-देशीय-नेपथ्याद्य्-अनुसारेण भक्तितः । केऽप्य् अत्र कञ्चुकोस्णीषाद्य्-अम्बराण्य् अर्पयन्ति च ॥ २४० ॥

Transliteration

madhya-deśīya-nepathyādy-anusāreṇa bhaktitaḥ । ke’py atra kañcukosṇīṣādy-ambarāṇy arpayanti ca ॥ 240 ॥

6.241

Śloka

तत्-तद्-देशीय-भूषाढ्यां तत्-तन्-मूर्तिं च कारयेत् ॥ २४१ ॥

Transliteration

tat-tad-deśīya-bhūṣāḍhyāṁ tat-tan-mūrtiṁ ca kārayet ॥ 241 ॥

6.242

Śloka

अलङ्कुर्वीत स-प्रेम मद्-भक्तो मां यथोचितम् ॥ २४२ ॥

Transliteration

alaṅkurvīta sa-prema mad-bhakto māṁ yathocitam ॥ 242 ॥

6.243

Śloka

वासोभिः पूजयेद् विष्णुं य्न्य् एवात्म-प्रियाणि तु । तथान्यैश् च शुभिअर् दिव्यैर् अर्चयेच् च दुकूलैः ॥ २४३ ॥

Transliteration

vāsobhiḥ pūjayed viṣṇuṁ yny evātma-priyāṇi tu । tathānyaiś ca śubhiar divyair arcayec ca dukūlaiḥ ॥ 243 ॥

6.244

Śloka

वासांसि च विचित्राणि सारवन्ति शुचीनि च । धूपितानि हरेर् दद्यात् विकेशानि नवानि च ॥ २४४ ॥

Transliteration

vāsāṁsi ca vicitrāṇi sāravanti śucīni ca । dhūpitāni harer dadyāt vikeśāni navāni ca ॥ 244 ॥

6.245

Śloka

भूषयेद् बहुभिर् वस्त्रैर् विचित्रैः कञ्चुकादिभिः । भोगानन्तरम् एवेति बहूनां सम्मतं सताम् ॥ २४५ ॥

Transliteration

bhūṣayed bahubhir vastrair vicitraiḥ kañcukādibhiḥ । bhogānantaram eveti bahūnāṁ sammataṁ satām ॥ 245 ॥

6.246

Śloka

कृष्णं स्नानार्द्र-गात्रं तु वस्त्रेण परिमार्जति । तस्य लक्षार्जितस्यापि भवेत् पापस्य मार्जनम् ॥ २४६ ॥

Transliteration

kṛṣṇaṁ snānārdra-gātraṁ tu vastreṇa parimārjati । tasya lakṣārjitasyāpi bhavet pāpasya mārjanam ॥ 246 ॥

6.247

Śloka

वस्त्राभ्याम् अच्युतं भक्त्या परिधाप्य विचित्रितम् । सोम-लोके वसित्वा तु विष्णु-लोके महीयते ॥ २४७ ॥

Transliteration

vastrābhyām acyutaṁ bhaktyā paridhāpya vicitritam । soma-loke vasitvā tu viṣṇu-loke mahīyate ॥ 247 ॥

6.248

Śloka

वस्त्राणि सुपवित्राणि सारवन्ति मृदूनि च । रूपवन्ति हरेर् दत्त्वा सदशानि नवानि च ॥ २४८ ॥

Transliteration

vastrāṇi supavitrāṇi sāravanti mṛdūni ca । rūpavanti harer dattvā sadaśāni navāni ca ॥ 248 ॥

6.249

Śloka

यावद् वस्त्रस्य तन्तुना परिमाणं भवत्य् अथ । तावद् वर्ष-सहस्राणि विष्णु-लोके महीयते ॥ २४९ ॥

Transliteration

yāvad vastrasya tantunā parimāṇaṁ bhavaty atha । tāvad varṣa-sahasrāṇi viṣṇu-loke mahīyate ॥ 249 ॥

6.250

Śloka

राङ्कवस्य प्रदानेन सर्वान् कानाम् अवाप्नुयात् ।* कार्पासिकं वस्त्र-युगं यः प्रदद्याज् जनार्दने ॥ २५० ॥

Transliteration

rāṅkavasya pradānena sarvān kānām avāpnuyāt ।* kārpāsikaṁ vastra-yugaṁ yaḥ pradadyāj janārdane ॥ 250 ॥

6.251

Śloka

यावन्ति तस्य तन्तूनि हस्त-मात्र-मितानि तु । तावद् वर्ष-सहस्राणि विष्णु-लोके महीयते ॥ २५१ ॥

Transliteration

yāvanti tasya tantūni hasta-mātra-mitāni tu । tāvad varṣa-sahasrāṇi viṣṇu-loke mahīyate ॥ 251 ॥

6.252

Śloka

महार्घता यथा तस्य साधु-देशोद्भवो यथा । सूक्ष्मता च यथा विप्रास् तथा प्रोक्तं फलं महत् ॥ २५२ ॥

Transliteration

mahārghatā yathā tasya sādhu-deśodbhavo yathā । sūkṣmatā ca yathā viprās tathā proktaṁ phalaṁ mahat ॥ 252 ॥

6.253

Śloka

शुक्ल-वस्त्र-प्रदानेन श्रियम् आप्नोत्य् अनुत्तमाम् । महा-रजन-रक्तेन सौभाग्यं महद् अश्नुते ॥ २५३ ॥

Transliteration

śukla-vastra-pradānena śriyam āpnoty anuttamām । mahā-rajana-raktena saubhāgyaṁ mahad aśnute ॥ 253 ॥

6.254

Śloka

तथा कुङ्कुम-रक्तेन स्त्रीणां वल्लभतां व्रजेत् । नीली-रक्तं विना रक्तं शेष-रङ्गैर् द्विजोत्तमाः । दत्त्वा भवति धर्मात्मा सर्व-व्याधि-विवर्जितः ॥ २५४ ॥

Transliteration

tathā kuṅkuma-raktena strīṇāṁ vallabhatāṁ vrajet । nīlī-raktaṁ vinā raktaṁ śeṣa-raṅgair dvijottamāḥ । dattvā bhavati dharmātmā sarva-vyādhi-vivarjitaḥ ॥ 254 ॥

6.255

Śloka

कौशेयानि च वस्त्राणि सुमृदूनि लघूनि च । यः प्रयच्छति देवाय सोऽश्वमेध-फलं लभेत् ॥ २५५ ॥

Transliteration

kauśeyāni ca vastrāṇi sumṛdūni laghūni ca । yaḥ prayacchati devāya so’śvamedha-phalaṁ labhet ॥ 255 ॥

6.256

Śloka

राङ्कवा मृग-लोम्याश् च कदल्याश् च तथा शुभा । यो दद्याद् देव-देवाय सोऽश्वमेध-फलं लभेत् ॥ २५६ ॥

Transliteration

rāṅkavā mṛga-lomyāś ca kadalyāś ca tathā śubhā । yo dadyād deva-devāya so’śvamedha-phalaṁ labhet ॥ 256 ॥

6.257

Śloka

नाना-भक्ति-विचित्राणि चीरजानि नवानि च । दत्त्वा वासांसि शुभ्राणि राजसूय-फलं लभेत् ॥ २५७ ॥

Transliteration

nānā-bhakti-vicitrāṇi cīrajāni navāni ca । dattvā vāsāṁsi śubhrāṇi rājasūya-phalaṁ labhet ॥ 257 ॥

6.258

Śloka

नाना-देश-समुद्भूतैः सुवस्त्रैश् च सुकोमलैः । धूपयित्वा सुभक्त्या च प्रधापयति माधवम् । मन्वन्तराणि वसते तन्तु-संख्यं हरेर् गृहे ॥ २५८ ॥

Transliteration

nānā-deśa-samudbhūtaiḥ suvastraiś ca sukomalaiḥ । dhūpayitvā subhaktyā ca pradhāpayati mādhavam । manvantarāṇi vasate tantu-saṁkhyaṁ harer gṛhe ॥ 258 ॥

6.259

Śloka

नीली-रक्तं तथा जीर्णं वस्त्रम् अन्य-धृतं तथा । देव-देवाय यो दद्यात् स तु पापैर् हि युज्यते ॥ २५९ ॥

Transliteration

nīlī-raktaṁ tathā jīrṇaṁ vastram anya-dhṛtaṁ tathā । deva-devāya yo dadyāt sa tu pāpair hi yujyate ॥ 259 ॥

6.260

Śloka

आविके पट्ट-वस्त्रे च नीली-रागो न दुष्यति ॥ २६० ॥

Transliteration

āvike paṭṭa-vastre ca nīlī-rāgo na duṣyati ॥ 260 ॥

6.261

Śloka

वस्त्रस्य्âर्पण-मुद्रां च प्रदर्श्य परिधाप्य तत् ।उपवीतं समार्प्याथ तन्-मुद्रां च प्रदर्शयेत् ॥ २६१ ॥

Transliteration

vastrasyârpaṇa-mudrāṁ ca pradarśya paridhāpya tat ।upavītaṁ samārpyātha tan-mudrāṁ ca pradarśayet ॥ 261 ॥

6.262

Śloka

त्रिवृत् शुक्लं च पीतं च पट्ट-सूत्रादि-निर्मितम् । यज्ञोपवीतं गोविन्दे दत्त्वा वेदान्तगो भवेत् ॥ २६२ ॥

Transliteration

trivṛt śuklaṁ ca pītaṁ ca paṭṭa-sūtrādi-nirmitam । yajñopavītaṁ govinde dattvā vedāntago bhavet ॥ 262 ॥

6.263

Śloka

यज्ञोपवीत-दानेन सुरेभ्यो ब्राह्मणाय वा । भवेद् विद्वांश् चतुर्वेदी शुद्ध-धीर् नात्र संशयः ॥ २६३ ॥

Transliteration

yajñopavīta-dānena surebhyo brāhmaṇāya vā । bhaved vidvāṁś caturvedī śuddha-dhīr nātra saṁśayaḥ ॥ 263 ॥

6.264

Śloka

निर्माय भाले कृष्णस्य दद्याद् आचमनं ततः ॥ २६४ ॥

Transliteration

nirmāya bhāle kṛṣṇasya dadyād ācamanaṁ tataḥ ॥ 264 ॥

6.265

Śloka

ततो देवाय दिव्यानि भूषणानि निवेद्य च । परिधाप्य यथा-युक्तं तन्-मुद्रां च प्रदर्शयेत् ॥ २६५ ॥

Transliteration

tato devāya divyāni bhūṣaṇāni nivedya ca । paridhāpya yathā-yuktaṁ tan-mudrāṁ ca pradarśayet ॥ 265 ॥

6.266

Śloka

मणि-मौक्तिक-संयुक्तं दत्त्वाभरणम् उत्तमम् । स्व-शक्त्या भूषणं दत्त्वा अग्निष्टोम-फलं लभेत् ॥ २६६ ॥

Transliteration

maṇi-mauktika-saṁyuktaṁ dattvābharaṇam uttamam । sva-śaktyā bhūṣaṇaṁ dattvā agniṣṭoma-phalaṁ labhet ॥ 266 ॥

6.267

Śloka

गुञ्जा-मात्रं सुवर्णस्य यो दद्याद् विष्णु-मूर्धनि । इन्द्रस्य भवने तिष्ठेद् यावद् आहूत-सम्प्लवम् ॥ २६७ ॥

Transliteration

guñjā-mātraṁ suvarṇasya yo dadyād viṣṇu-mūrdhani । indrasya bhavane tiṣṭhed yāvad āhūta-samplavam ॥ 267 ॥

6.268

Śloka

तस्माद् आभरणं देवि दातव्यं विष्णवे सदा । नारायणो भवेत् प्रीतो भक्त्या परमया मुभे ॥ २६८ ॥

Transliteration

tasmād ābharaṇaṁ devi dātavyaṁ viṣṇave sadā । nārāyaṇo bhavet prīto bhaktyā paramayā mubhe ॥ 268 ॥

6.269

Śloka

अलङ्कारं तु यो दद्याद् विप्रायाथ सुराय वा । स गच्छेद् वारुणं लोकं नानाभरण-भूषितः । जातः पृथिव्यां काऌएन भवेद् द्वीप-पतिर् नृपः ॥ २६९ ॥

Transliteration

alaṅkāraṁ tu yo dadyād viprāyātha surāya vā । sa gacched vāruṇaṁ lokaṁ nānābharaṇa-bhūṣitaḥ । jātaḥ pṛthivyāṁ kāḷena bhaved dvīpa-patir nṛpaḥ ॥ 269 ॥

6.270

Śloka

कर्णाभरण-दानेन भवेच् छ्रुति-धरो नरः । अश्वमेधम् अवाप्नोति सौभाग्यं चापि विन्दति ॥ २७० ॥

Transliteration

karṇābharaṇa-dānena bhavec chruti-dharo naraḥ । aśvamedham avāpnoti saubhāgyaṁ cāpi vindati ॥ 270 ॥

6.271

Śloka

कर्णपूर-प्रदानेन श्रुतिं सर्वत्र विन्दति ॥ २७१ ॥

Transliteration

karṇapūra-pradānena śrutiṁ sarvatra vindati ॥ 271 ॥

6.272

Śloka

मूर्धाभरण-दानेन भूर् धन्यो भूतले भवेत् । चतुः-समुद्र-वलयां प्रशास्ति च वसुन्धराम् ॥ २७२ ॥

Transliteration

mūrdhābharaṇa-dānena bhūr dhanyo bhūtale bhavet । catuḥ-samudra-valayāṁ praśāsti ca vasundharām ॥ 272 ॥

6.273

Śloka

विभूषण-प्रदानेन मूर्धन्यो भूतले भवेत् । रम्याणि रत्न-चित्राणि सौर्वर्णानि द्विजोत्तमाः ॥ २७३ ॥

Transliteration

vibhūṣaṇa-pradānena mūrdhanyo bhūtale bhavet । ramyāṇi ratna-citrāṇi saurvarṇāni dvijottamāḥ ॥ 273 ॥

6.274

Śloka

दत्त्वाभरण-जातानि राजसूय-फलं लभेत् । पादाङ्गुलीय-दानेन गुह्यकाधिपतिर् भवेत् ॥ २७४ ॥

Transliteration

dattvābharaṇa-jātāni rājasūya-phalaṁ labhet । pādāṅgulīya-dānena guhyakādhipatir bhavet ॥ 274 ॥

6.275

Śloka

पादाभरण-दानेन स्थानं सर्वत्र विन्दति ॥ २७५ ॥

Transliteration

pādābharaṇa-dānena sthānaṁ sarvatra vindati ॥ 275 ॥

6.276

Śloka

श्रोणी-सूत्र-प्रदानेन महीं सागर-मेखलाम् । प्रशास्ति निहतामित्रो नात्र कार्या विचारणा ॥ २७६ ॥

Transliteration

śroṇī-sūtra-pradānena mahīṁ sāgara-mekhalām । praśāsti nihatāmitro nātra kāryā vicāraṇā ॥ 276 ॥

6.277

Śloka

सौभाग्यं महद् आप्नोति किङ्किणीं प्रददद् धरेः । हस्ताङ्गुलीय-दानेन परं सौभाग्यम् आप्नुयात् ॥ २७७ ॥

Transliteration

saubhāgyaṁ mahad āpnoti kiṅkiṇīṁ pradadad dhareḥ । hastāṅgulīya-dānena paraṁ saubhāgyam āpnuyāt ॥ 277 ॥

6.278

Śloka

तथैवाङ्गद-दानेन राजा भवति भूतले । केयूर-दानाद् भवति शतुर्-पक्ष-क्षयङ्करः ॥ २७८ ॥

Transliteration

tathaivāṅgada-dānena rājā bhavati bhūtale । keyūra-dānād bhavati śatur-pakṣa-kṣayaṅkaraḥ ॥ 278 ॥

6.279

Śloka

ग्रैवेयकाणि दत्त्वा च सर्व-शास्त्रार्थविद् भवेत् । नार्यश् च वशगास् तस्य भवति द्विज-पुङ्गवाः ॥ २७९ ॥

Transliteration

graiveyakāṇi dattvā ca sarva-śāstrārthavid bhavet । nāryaś ca vaśagās tasya bhavati dvija-puṅgavāḥ ॥ 279 ॥

6.280

Śloka

दत्त्वा प्रतिसरान् मुख्यान् न भूतैर् अभिभूयते ॥ २८० ॥

Transliteration

dattvā pratisarān mukhyān na bhūtair abhibhūyate ॥ 280 ॥

6.281

Śloka

कृत्रिमं च प्रदातव्यं तथैवाभरणं दिव्जाः । प्रतिरूप-कृतं दत्त्वा क्षिप्रं पुष्ट्या प्रयुज्यते ॥ २८१ ॥

Transliteration

kṛtrimaṁ ca pradātavyaṁ tathaivābharaṇaṁ divjāḥ । pratirūpa-kṛtaṁ dattvā kṣipraṁ puṣṭyā prayujyate ॥ 281 ॥

6.282

Śloka

शङ्ख-चक्र-गदादीनि पादाद्य्-अवयवेषु च । सौवर्णाभरणं कृत्वा विष्णु-लोके महीयते ॥ २८२ ॥

Transliteration

śaṅkha-cakra-gadādīni pādādy-avayaveṣu ca । sauvarṇābharaṇaṁ kṛtvā viṣṇu-loke mahīyate ॥ 282 ॥

6.283

Śloka

सुवर्णाभरणैर् दिव्यैर् हार-केयूर-कुण्डलैः । मुकुटैः कटकाद्यैश् च यो विष्णुं पूजयेन् नरः ॥ २८३ ॥

Transliteration

suvarṇābharaṇair divyair hāra-keyūra-kuṇḍalaiḥ । mukuṭaiḥ kaṭakādyaiś ca yo viṣṇuṁ pūjayen naraḥ ॥ 283 ॥

6.284

Śloka

सर्व-पाप-विनिर्मुक्तः सर्व-भूषण-भूषितः । इन्द्र-लोके वसेद् धीमान् यावद् इन्द्रश् चतुर्दश ॥ २८४ ॥

Transliteration

sarva-pāpa-vinirmuktaḥ sarva-bhūṣaṇa-bhūṣitaḥ । indra-loke vased dhīmān yāvad indraś caturdaśa ॥ 284 ॥

6.285

Śloka

यस्यार्चा तिष्ठते विष्णोर् हेम-भूषण-भूषिता । रत्नैर् मुक्ताविशेषेण अहन्य् अहनि वासव ॥ २८५ ॥

Transliteration

yasyārcā tiṣṭhate viṣṇor hema-bhūṣaṇa-bhūṣitā । ratnair muktāviśeṣeṇa ahany ahani vāsava ॥ 285 ॥

6.286

Śloka

कल्प-कोटि-सहस्राणि तस्य वै भुवने हरेः । वासो भवति देवेन्द्र कथितं ब्रह्मणा मम ॥ २८६ ॥

Transliteration

kalpa-koṭi-sahasrāṇi tasya vai bhuvane hareḥ । vāso bhavati devendra kathitaṁ brahmaṇā mama ॥ 286 ॥

6.287

Śloka

यः पश्यति नरः कृष्णं हेम-भूषण-भूषितम् । सकृद् भक्त्या कलौ शक्र पुनात्य् आसप्तमं कुलम् ॥ २८७ ॥

Transliteration

yaḥ paśyati naraḥ kṛṣṇaṁ hema-bhūṣaṇa-bhūṣitam । sakṛd bhaktyā kalau śakra punāty āsaptamaṁ kulam ॥ 287 ॥

6.288

Śloka

बहुलं भूषणं भोगात् पश्चाद् एवानुलेपनम् । पुष्पं चेच्छन्ति सन्तोऽनुलेपनार्चानुभूषणम् ॥ २८८ ॥

Transliteration

bahulaṁ bhūṣaṇaṁ bhogāt paścād evānulepanam । puṣpaṁ cecchanti santo’nulepanārcānubhūṣaṇam ॥ 288 ॥

6.289

Śloka

सम्प्रार्थ्याथ प्रभुं प्राग्वत् निवेद्य शुचि-पादुके । वाद्य-गीतातपत्रान्यैः पूजा-स्थानं पुनर् नयेत् ॥ २८९ ॥

Transliteration

samprārthyātha prabhuṁ prāgvat nivedya śuci-pāduke । vādya-gītātapatrānyaiḥ pūjā-sthānaṁ punar nayet ॥ 289 ॥

6.290

Śloka

प्राग्वद् दत्त्वासनादीनि गन्धं तन्-मुद्रयार्पयेत् । शङ्खे निधाय तुलसी-दलेनैवाथ चन्दनम् ॥ २९० ॥

Transliteration

prāgvad dattvāsanādīni gandhaṁ tan-mudrayārpayet । śaṅkhe nidhāya tulasī-dalenaivātha candanam ॥ 290 ॥

6.291

Śloka

चन्दनागुरु-कर्पूर-पङ्कं गन्धम् इहोच्यते ॥ २९१ ॥

Transliteration

candanāguru-karpūra-paṅkaṁ gandham ihocyate ॥ 291 ॥

6.292

Śloka

कस्तूरिकाया द्वौ भागौ चत्वारश् चन्दनस्य तु । कुङ्कुमस्य त्रयश् चैकः शशिनः स्याच् चतुःसमम् ॥ २९२ ॥

Transliteration

kastūrikāyā dvau bhāgau catvāraś candanasya tu । kuṅkumasya trayaś caikaḥ śaśinaḥ syāc catuḥsamam ॥ 292 ॥

6.293

Śloka

कर्पूरं चन्दनं दर्पः कुङ्कुमं च चतुःसम । सर्वं गन्धम् इति प्रोक्तं समस्त-सुर-वल्लभम् ॥ २९३ ॥

Transliteration

karpūraṁ candanaṁ darpaḥ kuṅkumaṁ ca catuḥsama । sarvaṁ gandham iti proktaṁ samasta-sura-vallabham ॥ 293 ॥

6.294

Śloka

कर्पूरं कुङ्कुमश् चैव वरं तगरम् एव च । रस्यं च चन्दनं चैव अगुरुं गुग्गुलं तथा । एतैर् विलेपनं दद्यात् शुभं चारु विचक्षणः ॥ २९४ ॥

Transliteration

karpūraṁ kuṅkumaś caiva varaṁ tagaram eva ca । rasyaṁ ca candanaṁ caiva aguruṁ guggulaṁ tathā । etair vilepanaṁ dadyāt śubhaṁ cāru vicakṣaṇaḥ ॥ 294 ॥

6.295

Śloka

सुगन्धैश् च मुरामांसी-कर्पूरागुरु-चन्दनैः । तथान्यैश् च शुभैर् द्रव्यैर् अर्चयेज् जगती-पतिम् ॥ २९५ ॥

Transliteration

sugandhaiś ca murāmāṁsī-karpūrāguru-candanaiḥ । tathānyaiś ca śubhair dravyair arcayej jagatī-patim ॥ 295 ॥

6.296

Śloka

कर्पूरागुरु-मिश्रेण चन्दनेनानुलेपयेत् । मृग-दर्पं विशेषेण अभीष्टं चक्र-पाणिनः ॥ २९६ ॥

Transliteration

karpūrāguru-miśreṇa candanenānulepayet । mṛga-darpaṁ viśeṣeṇa abhīṣṭaṁ cakra-pāṇinaḥ ॥ 296 ॥

6.297

Śloka

गन्धेभ्यश् चन्दनं पुण्यं चन्दनाद् अगुरुर् वरः । कृष्णागुरुस् ततः श्रेष्ठः कुङ्कुमं तु ततोऽधिकम् ॥ २९७ ॥

Transliteration

gandhebhyaś candanaṁ puṇyaṁ candanād agurur varaḥ । kṛṣṇāgurus tataḥ śreṣṭhaḥ kuṅkumaṁ tu tato’dhikam ॥ 297 ॥

6.298

Śloka

न दातव्यं द्विज-श्रेष्ठ अतोऽन्यद् अनुलेपनम् । अनुलेपन-मुख्यं तु चन्दनं परिकीर्तितम् ॥ २९८ ॥

Transliteration

na dātavyaṁ dvija-śreṣṭha ato’nyad anulepanam । anulepana-mukhyaṁ tu candanaṁ parikīrtitam ॥ 298 ॥

6.299

Śloka

यथा विष्णोः सदाभीष्टं नैवेद्यं शालि-सम्भवम् । शुकेनोक्तं पुराणे च तथा तुलसि-चन्दनम् ॥ २९९ ॥

Transliteration

yathā viṣṇoḥ sadābhīṣṭaṁ naivedyaṁ śāli-sambhavam । śukenoktaṁ purāṇe ca tathā tulasi-candanam ॥ 299 ॥

6.300

Śloka

संघृष्य तुलसी-काष्ठं यो दद्याद् राम-मूर्धनि । कर्पूरागुरु-कस्तूरी-कुङ्कुमं न च तत्-समम् ॥ ३०० ॥

Transliteration

saṁghṛṣya tulasī-kāṣṭhaṁ yo dadyād rāma-mūrdhani । karpūrāguru-kastūrī-kuṅkumaṁ na ca tat-samam ॥ 300 ॥