6.294
Śloka
कर्पूरं कुङ्कुमश् चैव वरं तगरम् एव च ।
रस्यं च चन्दनं चैव अगुरुं गुग्गुलं तथा ।
एतैर् विलेपनं दद्यात् शुभं चारु विचक्षणः ॥ २९४ ॥
Transliteration
karpūraṁ kuṅkumaś caiva varaṁ tagaram eva ca ।
rasyaṁ ca candanaṁ caiva aguruṁ guggulaṁ tathā ।
etair vilepanaṁ dadyāt śubhaṁ cāru vicakṣaṇaḥ ॥ 294 ॥