3.58
Śloka
दन्ता गजानां कुलिशाग्र-निष्ठुराः
शीर्णा यद् एते न बलं ममैतत् ।
महा-विपत्-पात-विनाशनोऽयं
जनार्दनानुस्मरणानुभावः ॥ ५८ ॥
Transliteration
dantā gajānāṁ kuliśāgra-niṣṭhurāḥ
śīrṇā yad ete na balaṁ mamaitat ।
mahā-vipat-pāta-vināśano’yaṁ
janārdanānusmaraṇānubhāvaḥ ॥ 58 ॥