Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

Vilāsa 19

prātiṣṭhikaḥ

19.401

Śloka

पूजयेच्च ततो देवं साङ्गं सपरिवारकम् । तत्तद्विशेषो विज्ञेयोऽश्वशिरःपञ्चरात्रतः ॥ ४०१ ॥

Transliteration

pūjayecca tato devaṁ sāṅgaṁ saparivārakam । tattadviśeṣo vijñeyo'śvaśiraḥpañcarātrataḥ ॥ 401 ॥

19.402

Śloka

आचार्यः स्थापयेद्विद्वान् मूर्तिपांस्तत्र मण्डपे । चतुरो ब्रह्मणो होतृनृत्विजो जापिनस्तथा ॥ ४०२ ॥

Transliteration

ācāryaḥ sthāpayedvidvān mūrtipāṁstatra maṇḍape । caturo brahmaṇo hotṛnṛtvijo jāpinastathā ॥ 402 ॥

19.403

Śloka

रक्षकांश्च चतुर्द्वार्षु चतुरः स्थापयेद्बुधः । एक पुरुषसूक्तस्य जापकं मण्डपान्तरे ॥ ४०३ ॥

Transliteration

rakṣakāṁśca caturdvārṣu caturaḥ sthāpayedbudhaḥ । eka puruṣasūktasya jāpakaṁ maṇḍapāntare ॥ 403 ॥

19.404

Śloka

आचार्येण समाविष्टाः स्वस्वस्थाने स्थिताश्च ते । स्वस्वप्रयोजनं कुर्यः शिष्टाचारानुसारतः ॥ ४०४ ॥

Transliteration

ācāryeṇa samāviṣṭāḥ svasvasthāne sthitāśca te । svasvaprayojanaṁ kuryaḥ śiṣṭācārānusārataḥ ॥ 404 ॥

19.405

Śloka

मूर्तिपान् स्थापयेत्तत्र सर्वदिक्षु विचक्षणः । चतुरो द्वारपालांश्च द्वारेषु विनिवेशयेत् ॥ ४०५ ॥

Transliteration

mūrtipān sthāpayettatra sarvadikṣu vicakṣaṇaḥ । caturo dvārapālāṁśca dvāreṣu viniveśayet ॥ 405 ॥

19.406

Śloka

श्रीसूक्तं पावमानं तु सोमसूक्तं सुमङ्गलम् । तथा च शान्तिकाध्यायमिन्द्रसूक्तं तथैव च । रक्षोध्नञ्च तथा सूक्तं पूर्वतो बह्वृचो जपेत् ॥ ४०६ ॥

Transliteration

śrīsūktaṁ pāvamānaṁ tu somasūktaṁ sumaṅgalam । tathā ca śāntikādhyāyamindrasūktaṁ tathaiva ca । rakṣodhnañca tathā sūktaṁ pūrvato bahvṛco japet ॥ 406 ॥

19.407

Śloka

रुद्रान् पुरुषसूक्तञ्च श्लोकाध्यायं ससुक्रियम् । तथैव मण्डलाध्यायमध्वर्युर्दक्षिणे जपेत् ॥ ४०७ ॥

Transliteration

rudrān puruṣasūktañca ślokādhyāyaṁ sasukriyam । tathaiva maṇḍalādhyāyamadhvaryurdakṣiṇe japet ॥ 407 ॥

19.408

Śloka

वामदेव्य बृहत्साम ज्येष्ठं साम रथन्तरम् । तथा पुरुषसूक्तञ्च रुद्रसूक्त सशान्तिकम् । भारूण्डानि च सामानि छन्दोगः पश्चिमे जपेत् ॥ ४०८ ॥

Transliteration

vāmadevya bṛhatsāma jyeṣṭhaṁ sāma rathantaram । tathā puruṣasūktañca rudrasūkta saśāntikam । bhārūṇḍāni ca sāmāni chandogaḥ paścime japet ॥ 408 ॥

19.409

Śloka

अथर्वाङ्गिरसं तद्वन्नीलरुद्रं तथैव च । तथापराजितां देवीं मधुसूक्तं सरौद्रकम् । तथैव शान्तिकाध्यायमध्वर्युश्चोत्तरे जपेत् ॥ ४०९ ॥

Transliteration

atharvāṅgirasaṁ tadvannīlarudraṁ tathaiva ca । tathāparājitāṁ devīṁ madhusūktaṁ saraudrakam । tathaiva śāntikādhyāyamadhvaryuścottare japet ॥ 409 ॥

19.410

Śloka

श्रीसूक्तं पावमानञ्च ताम्यं दाम्यञ्च वाजिनम् । वृषाक पञ्च मैत्रञ्च बवृचः पश्चिमे जपेत् ॥ ४१० ॥

Transliteration

śrīsūktaṁ pāvamānañca tāmyaṁ dāmyañca vājinam । vṛṣāka pañca maitrañca bavṛcaḥ paścime japet ॥ 410 ॥

19.411

Śloka

देवव्रतं पुरुषगतिं ज्येष्ठसाम रथन्तरम् । भारूण्डानि च सामानि वामदेव्यं तथैव च । उत्तरां दिशमास्थाय छन्दोगस्तज्जपेत् सदा ॥ ४११ ॥

Transliteration

devavrataṁ puruṣagatiṁ jyeṣṭhasāma rathantaram । bhārūṇḍāni ca sāmāni vāmadevyaṁ tathaiva ca । uttarāṁ diśamāsthāya chandogastajjapet sadā ॥ 411 ॥

19.412

Śloka

रुद्रान् पुरुषसूक्तञ्च श्लोकाध्याय ससूक्रियाम् । ब्राह्मण मैत्रमैन्द्रञ्च अध्वर्युः पूर्वतो जपेत् ॥ ४१२ ॥

Transliteration

rudrān puruṣasūktañca ślokādhyāya sasūkriyām । brāhmaṇa maitramaindrañca adhvaryuḥ pūrvato japet ॥ 412 ॥

19.413

Śloka

अथर्वाङ्गिरसञ्चैव शिवसूक्तं तथैव च । नीलरुद्रञ्च वै मन्त्रमथर्वा दक्षिणे जपेत् ॥ ४१३ ॥

Transliteration

atharvāṅgirasañcaiva śivasūktaṁ tathaiva ca । nīlarudrañca vai mantramatharvā dakṣiṇe japet ॥ 413 ॥

19.414

Śloka

विष्णुकल्पं परिषदं पञ्चरात्रानुगामिनम् । स्तोत्रमन्त्रविश्वाथ पठेयुर्दक्षिणे सदा ॥ ४१४ ॥

Transliteration

viṣṇukalpaṁ pariṣadaṁ pañcarātrānugāminam । stotramantraviśvātha paṭheyurdakṣiṇe sadā ॥ 414 ॥

19.415

Śloka

मध्ये पुरुषसूक्तञ्च प्रजपेद्गर्भजापकः । जपेयुः शान्तिकाध्यायं द्वार्षु ते जापकाः पुनः ॥ ४१५ ॥

Transliteration

madhye puruṣasūktañca prajapedgarbhajāpakaḥ । japeyuḥ śāntikādhyāyaṁ dvārṣu te jāpakāḥ punaḥ ॥ 415 ॥

19.416

Śloka

ब्रह्मादींस्तत्र चाचार्यो यथास्थानं निवेश्य तान् । होमं कुर्यान्निजे कुण्डे ते च कुर्युर्यथाविधि ॥ ४१६ ॥

Transliteration

brahmādīṁstatra cācāryo yathāsthānaṁ niveśya tān । homaṁ kuryānnije kuṇḍe te ca kuryuryathāvidhi ॥ 416 ॥

19.417

Śloka

शिरःस्थाने तु कृष्णस्य आचार्यो होममाचरेत् । शान्तिकैः पौष्टिकैश्चापि मन्त्रैर्याहृतिभिस्तथा ॥ ४१७ ॥

Transliteration

śiraḥsthāne tu kṛṣṇasya ācāryo homamācaret । śāntikaiḥ pauṣṭikaiścāpi mantrairyāhṛtibhistathā ॥ 417 ॥

19.418

Śloka

पलाशोडुम्बराश्वत्थमपामार्गं शमीं तथा । सहस्रमेकं हुत्वा च विष्णुपादौ स्पृशेत्ततः ॥ ४१८ ॥

Transliteration

palāśoḍumbarāśvatthamapāmārgaṁ śamīṁ tathā । sahasramekaṁ hutvā ca viṣṇupādau spṛśettataḥ ॥ 418 ॥

19.419

Śloka

द्वितीय तु ततो हुत्वा समिद्भिस्तावदेव तु । मध्ये तु संस्पृशेद्देवं मूर्ध्न चैवं क्रमेण तु ॥ ४१९ ॥

Transliteration

dvitīya tu tato hutvā samidbhistāvadeva tu । madhye tu saṁspṛśeddevaṁ mūrdhna caivaṁ krameṇa tu ॥ 419 ॥

19.420

Śloka

होमयेयुस्ततः सर्वे मूर्तिपाः स्वदिगाश्रिताः । अनन्तादि-शिवान्ताश्च अष्टौ ये चक्रवर्तिनः । तेषां मन्त्रैश्च होतव्या जप्तव्याश्च यथाक्रमम् ॥ ४२० ॥

Transliteration

homayeyustataḥ sarve mūrtipāḥ svadigāśritāḥ । anantādi-śivāntāśca aṣṭau ye cakravartinaḥ । teṣāṁ mantraiśca hotavyā japtavyāśca yathākramam ॥ 420 ॥

19.421

Śloka

शिरःस्थाने तु देवस्य स्थापको होममाचरेत् । शान्तिकैः पौष्टिकस्तद्वन्मन्त्रैर्व्याहृतिपूर्वकैः ॥ ४२१ ॥

Transliteration

śiraḥsthāne tu devasya sthāpako homamācaret । śāntikaiḥ pauṣṭikastadvanmantrairvyāhṛtipūrvakaiḥ ॥ 421 ॥

19.422

Śloka

पलाशोडुम्बराश्वत्थमपामार्गं शमीं तथा । हुत्वा सहस्रमेकैकं देवं पादे तु संस्पृशेत् ॥ ४२२ ॥

Transliteration

palāśoḍumbarāśvatthamapāmārgaṁ śamīṁ tathā । hutvā sahasramekaikaṁ devaṁ pāde tu saṁspṛśet ॥ 422 ॥

19.423

Śloka

ततो होमसहस्रेण हुत्वा हुत्वा ततस्ततः । नाभिमध्यं तथा वक्षः शिरश्चाप्यालभेत् पुनः ॥ ४२३ ॥

Transliteration

tato homasahasreṇa hutvā hutvā tatastataḥ । nābhimadhyaṁ tathā vakṣaḥ śiraścāpyālabhet punaḥ ॥ 423 ॥

19.424

Śloka

मूर्तिपा लोकपालेभ्यो मूर्तिभ्यः क्रमशस्ततः । तथा मूर्त्यधिदेवेभ्यो होमं कुर्युः समन्ततः ॥ ४२४ ॥

Transliteration

mūrtipā lokapālebhyo mūrtibhyaḥ kramaśastataḥ । tathā mūrtyadhidevebhyo homaṁ kuryuḥ samantataḥ ॥ 424 ॥

19.425

Śloka

वसुधा वसुरेताश्च यजमानो दिवाकरः । जलं वायुस्तथा सोम आकाशं चाष्टमं मतम् । देवस्य मूर्तयो ह्यष्टावेताः कुण्डेषु संस्मरेत् ॥ ४२५ ॥

Transliteration

vasudhā vasuretāśca yajamāno divākaraḥ । jalaṁ vāyustathā soma ākāśaṁ cāṣṭamaṁ matam । devasya mūrtayo hyaṣṭāvetāḥ kuṇḍeṣu saṁsmaret ॥ 425 ॥

19.426

Śloka

एतासामधिपान् वक्ष्ये यैर्विप्रा मूर्तिपा मताः । पृथिवीं पात्ति सर्वस्तु पशुपश्चाग्निमेव तु । यजमानं तथैवोग्रो रुद्रश्चादित्यमेव च ॥ ४२६ ॥

Transliteration

etāsāmadhipān vakṣye yairviprā mūrtipā matāḥ । pṛthivīṁ pātti sarvastu paśupaścāgnimeva tu । yajamānaṁ tathaivogro rudraścādityameva ca ॥ 426 ॥

19.427

Śloka

भवो जलं सदा पाति वायुमीशान एव च । महादेवस्तथा चन्द्रं भीमश्चाकाशमेव च ॥ ४२७ ॥

Transliteration

bhavo jalaṁ sadā pāti vāyumīśāna eva ca । mahādevastathā candraṁ bhīmaścākāśameva ca ॥ 427 ॥

19.428

Śloka

सर्वदेवप्रतिष्ठासु मूर्तिपा ह्येत एव तु । एतेभ्यो वैदिकैर्मन्त्रैर्यथास्वं होममाचरेत् ॥ ४२८ ॥

Transliteration

sarvadevapratiṣṭhāsu mūrtipā hyeta eva tu । etebhyo vaidikairmantrairyathāsvaṁ homamācaret ॥ 428 ॥

19.429

Śloka

कृत्वाग्निं वैष्णवैर्मन्त्रैः कुर्याच्छान्त्युदकं बुधः । तत् सिक्त्वा प्रतिमामूर्ध्न वह्निप्रणयनं कुरु ॥ ४२९ ॥

Transliteration

kṛtvāgniṁ vaiṣṇavairmantraiḥ kuryācchāntyudakaṁ budhaḥ । tat siktvā pratimāmūrdhna vahnipraṇayanaṁ kuru ॥ 429 ॥

19.430

Śloka

दक्षिणेऽग्निभूतमिति कुण्डेऽग्निं प्रणयेद्बुधः । अग्निमयी तु पूर्वे तु कुण्डेऽग्निं प्रणयेद्बुधः ॥ ४३० ॥

Transliteration

dakṣiṇe'gnibhūtamiti kuṇḍe'gniṁ praṇayedbudhaḥ । agnimayī tu pūrve tu kuṇḍe'gniṁ praṇayedbudhaḥ ॥ 430 ॥

19.431

Śloka

उत्तरे प्रणयेदग्निं अग्निमग्निं तु धीमहि । अग्निप्रणयने मन्त्रस्त्वमग्ने त्विति पश्चिमे ॥ ४३१ ॥

Transliteration

uttare praṇayedagniṁ agnimagniṁ tu dhīmahi । agnipraṇayane mantrastvamagne tviti paścime ॥ 431 ॥

19.432

Śloka

पलाशसमिधानां तु वृताक्तानां महानले । अष्टोत्तरसहस्रं तु कुण्डे कुण्डे तु होमयेत् ॥ ४३२ ॥

Transliteration

palāśasamidhānāṁ tu vṛtāktānāṁ mahānale । aṣṭottarasahasraṁ tu kuṇḍe kuṇḍe tu homayet ॥ 432 ॥

19.433

Śloka

वेदादिमन्त्रैर्देवेश ततो ब्रीहींस्तु होमयेत् । तिलानां घृतयुक्तानां कुण्डे कुण्डे तु मूर्तिपाः ॥ ४३३ ॥

Transliteration

vedādimantrairdeveśa tato brīhīṁstu homayet । tilānāṁ ghṛtayuktānāṁ kuṇḍe kuṇḍe tu mūrtipāḥ ॥ 433 ॥

19.434

Śloka

सहस्रैकं व्याहृतिभिर्जुहुयुः साज्यमक्षतम् । मूलमन्त्रेण जुहुयुः स्वाहान्तेन सुरोत्तम । अष्टोत्तरसहस्रं तु कुण्डे कुण्डे यथाविधि ॥ ४३४ ॥

Transliteration

sahasraikaṁ vyāhṛtibhirjuhuyuḥ sājyamakṣatam । mūlamantreṇa juhuyuḥ svāhāntena surottama । aṣṭottarasahasraṁ tu kuṇḍe kuṇḍe yathāvidhi ॥ 434 ॥

19.435

Śloka

घृतहोममिदं प्रोक्तं शान्तिहोममतः शृणु । मधुरत्रितयेनाथ जुहुयाद्द्वादशक्षरैः । पादौ नाभिं हृच्छिरश्च स्पृशेद्बुद्ध्वा यथाक्रमम् ॥ ४३५ ॥

Transliteration

ghṛtahomamidaṁ proktaṁ śāntihomamataḥ śṛṇu । madhuratritayenātha juhuyāddvādaśakṣaraiḥ । pādau nābhiṁ hṛcchiraśca spṛśedbuddhvā yathākramam ॥ 435 ॥

19.436

Śloka

घृतं दधि पयश्चैव माक्षिकं देशिकः स्वयम् । प्रतिलोमं स्पृशेच्चापि हुत्वा तु मधुरत्रयम् ॥ ४३६ ॥

Transliteration

ghṛtaṁ dadhi payaścaiva mākṣikaṁ deśikaḥ svayam । pratilomaṁ spṛśeccāpi hutvā tu madhuratrayam ॥ 436 ॥

19.437

Śloka

शतमष्टोत्तरं हुत्वा विष्णुं शिरसि संस्पृशेत् । तथैव हुत्वा पञ्चाशत् हृदये संस्पृशेद्धरिम् ॥ ४३७ ॥

Transliteration

śatamaṣṭottaraṁ hutvā viṣṇuṁ śirasi saṁspṛśet । tathaiva hutvā pañcāśat hṛdaye saṁspṛśeddharim ॥ 437 ॥

19.438

Śloka

ततोऽष्टाविंशति हुत्वा नाभिदेशे हरिं स्पृशेत् । अष्टावष्टौ ततो हुत्वा पादाङ्गुष्ठौ तु संस्पृशेत् ॥ ४३८ ॥

Transliteration

tato'ṣṭāviṁśati hutvā nābhideśe hariṁ spṛśet । aṣṭāvaṣṭau tato hutvā pādāṅguṣṭhau tu saṁspṛśet ॥ 438 ॥

19.439

Śloka

देवं शान्तिघटस्थेन सम्पाताहुतिपाथवा । संस्नाप्य दत्त्वा वस्त्रादीनधिवासं समापयेत् ॥ ४३९ ॥

Transliteration

devaṁ śāntighaṭasthena sampātāhutipāthavā । saṁsnāpya dattvā vastrādīnadhivāsaṁ samāpayet ॥ 439 ॥

19.440

Śloka

शान्तितोयघटं गृह्य सम्पाताहुतिजं तथा । तेन पादौ तु देवस्य शिरः प्रक्षाल्य यत्नतः ॥ ४४० ॥

Transliteration

śāntitoyaghaṭaṁ gṛhya sampātāhutijaṁ tathā । tena pādau tu devasya śiraḥ prakṣālya yatnataḥ ॥ 440 ॥

19.441

Śloka

स्थितञ्च स्नापयेत्तत्र सम्पाताहुतिवारिणा । पुनः प्रच्छादयेच्चैवं धूपं दद्यात् सगुग्गुलुम् ॥ ४४१ ॥

Transliteration

sthitañca snāpayettatra sampātāhutivāriṇā । punaḥ pracchādayeccaivaṁ dhūpaṁ dadyāt saguggulum ॥ 441 ॥

19.442

Śloka

निवेद्य च हविष्यान्न तथा मोदकसंयुतम् । ब्राह्मणान् पूजयेत् पूर्वं शेषानन्यांश्च कामतः ॥ ४४२ ॥

Transliteration

nivedya ca haviṣyānna tathā modakasaṁyutam । brāhmaṇān pūjayet pūrvaṁ śeṣānanyāṁśca kāmataḥ ॥ 442 ॥

19.443

Śloka

रात्रौ महोत्सवः कार्यः शःखभेर्यादिनिस्वनैः । गायनैर्नर्तनैश्चैव ब्रह्मघोषैस्तथैव च ॥ ४४३ ॥

Transliteration

rātrau mahotsavaḥ kāryaḥ śaḥkhabheryādinisvanaiḥ । gāyanairnartanaiścaiva brahmaghoṣaistathaiva ca ॥ 443 ॥

19.444

Śloka

पुरतो वैष्णवान् धर्मान् श्रावयेद्वाचकस्तथा । त्रिरात्रमेकरात्रं वा कुर्यात्तत्राधिवासनम् ॥ ४४४ ॥

Transliteration

purato vaiṣṇavān dharmān śrāvayedvācakastathā । trirātramekarātraṁ vā kuryāttatrādhivāsanam ॥ 444 ॥

19.445

Śloka

ततः शान्तिघटं कुर्यात् प्रतिकूण्डेषु सर्वतः । शतान्ते वा सहस्रान्ते स्त्रुक्पूर्णाहुतिरिष्यते ॥ ४४५ ॥

Transliteration

tataḥ śāntighaṭaṁ kuryāt pratikūṇḍeṣu sarvataḥ । śatānte vā sahasrānte strukpūrṇāhutiriṣyate ॥ 445 ॥

19.446

Śloka

समाप्याहुतिर्मूर्द्ध्वस्थः प्रशान्तात्मा विनिक्षिपेत् । आहुतीनां तु सम्पातं पूर्णकुम्भेषु विन्यसेत् ॥ ४४६ ॥

Transliteration

samāpyāhutirmūrddhvasthaḥ praśāntātmā vinikṣipet । āhutīnāṁ tu sampātaṁ pūrṇakumbheṣu vinyaset ॥ 446 ॥

19.447

Śloka

मूलमध्योत्तमाङ्गेषु देवं तेनावसेचयेत् । स्थितञ्च स्नापयेत्तेन सम्पाताहुतिवारिणा ॥ ४४७ ॥

Transliteration

mūlamadhyottamāṅgeṣu devaṁ tenāvasecayet । sthitañca snāpayettena sampātāhutivāriṇā ॥ 447 ॥

19.448

Śloka

प्रतियामेषु धूपं च नैवेद्यं चन्दनोदकम् । पुनः पुनः प्रकुर्वीत होमः कार्यः पुनः पुनः ॥ ४४८ ॥

Transliteration

pratiyāmeṣu dhūpaṁ ca naivedyaṁ candanodakam । punaḥ punaḥ prakurvīta homaḥ kāryaḥ punaḥ punaḥ ॥ 448 ॥

19.449

Śloka

पुनः पुनश्च दातव्या यजमानेन दक्षिणा । सितवस्त्रैश्च ते सर्वे पूजनीयाः समन्ततः ॥ ४४९ ॥

Transliteration

punaḥ punaśca dātavyā yajamānena dakṣiṇā । sitavastraiśca te sarve pūjanīyāḥ samantataḥ ॥ 449 ॥

19.450

Śloka

विचित्रहेमकटकैर्मसूत्राङ्गुरीयकैः । वासोभिः शयनीयैश्च प्रतियामेषु शक्तितः ॥ ४५० ॥

Transliteration

vicitrahemakaṭakairmasūtrāṅgurīyakaiḥ । vāsobhiḥ śayanīyaiśca pratiyāmeṣu śaktitaḥ ॥ 450 ॥

19.451

Śloka

भोजनं चापि दातव्यं यावत् स्यादधिवासनम् । त्रिसन्ध्यं बलयो देया भूतेभ्यः सर्वतो दिशम् ॥ ४५१ ॥

Transliteration

bhojanaṁ cāpi dātavyaṁ yāvat syādadhivāsanam । trisandhyaṁ balayo deyā bhūtebhyaḥ sarvato diśam ॥ 451 ॥

19.452

Śloka

ब्राह्मणान् भोजयेत् पूर्वं शेषान् वर्णास्तु कामतः । रात्रौ महोत्सवः कार्यो नृत्यगीतकमङ्गलैः ॥ ४५२ ॥

Transliteration

brāhmaṇān bhojayet pūrvaṁ śeṣān varṇāstu kāmataḥ । rātrau mahotsavaḥ kāryo nṛtyagītakamaṅgalaiḥ ॥ 452 ॥

19.453

Śloka

त्रिरात्रमेकरात्रं वा पञ्चरात्रमथापि वा । सप्तरात्रमथो कुर्यात् क्वचित् सद्योऽधिवासनम् ॥ ४५३ ॥

Transliteration

trirātramekarātraṁ vā pañcarātramathāpi vā । saptarātramatho kuryāt kvacit sadyo'dhivāsanam ॥ 453 ॥

19.454

Śloka

यागमण्डपमासाद्य दक्षिणद्वारगोचरे । उत्तराभिमुखाः स्थाप्याश्चतस्रो धेनवोऽनघ ॥ ४५४ ॥

Transliteration

yāgamaṇḍapamāsādya dakṣiṇadvāragocare । uttarābhimukhāḥ sthāpyāścatasro dhenavo'nagha ॥ 454 ॥

19.455

Śloka

गङ्गेति प्रथमा ख्याता द्वितीया यमुनेति च । गोदावरी तृतीया च चतुर्थी तु सरस्वती ॥ ४५५ ॥

Transliteration

gaṅgeti prathamā khyātā dvitīyā yamuneti ca । godāvarī tṛtīyā ca caturthī tu sarasvatī ॥ 455 ॥

19.456

Śloka

दोहनं विष्णुगायत्र्या कृत्वा पश्चाच्चरुं श्रपेत् । गायत्र्या होमयेच्चैव गायत्र्यैव बलिं हरेत् ॥ ४५६ ॥

Transliteration

dohanaṁ viṣṇugāyatryā kṛtvā paścāccaruṁ śrapet । gāyatryā homayeccaiva gāyatryaiva baliṁ haret ॥ 456 ॥

19.457

Śloka

भोजयेद्ब्राह्मणं चैव मण्डपादुत्तरे द्विज । पायसेनाज्ययुक्तेन शर्करामिश्रितेन च ॥ ४५७ ॥

Transliteration

bhojayedbrāhmaṇaṁ caiva maṇḍapāduttare dvija । pāyasenājyayuktena śarkarāmiśritena ca ॥ 457 ॥

19.458

Śloka

मासाधिपानां तुष्ट्यर्थं दद्यात् कनकदक्षिणाम् । गाश्च तांस्तान् समुद्दिश्य एकैकाय निवेदयेत् । देवासुरादीनुद्दिश्य कुर्याद्वलिनिवेदनम् ॥ ४५८ ॥

Transliteration

māsādhipānāṁ tuṣṭyarthaṁ dadyāt kanakadakṣiṇām । gāśca tāṁstān samuddiśya ekaikāya nivedayet । devāsurādīnuddiśya kuryādvalinivedanam ॥ 458 ॥

19.459

Śloka

अधिवास्यैव देवेशं कुर्याज्जागरमादरात् । मङ्गलेर्ब्रह्मघोषैश्च जयशब्दरवैस्तथा ॥ ४५९ ॥

Transliteration

adhivāsyaiva deveśaṁ kuryājjāgaramādarāt । maṅgalerbrahmaghoṣaiśca jayaśabdaravaistathā ॥ 459 ॥

19.460

Śloka

पुण्याहशब्दैर्विपुलैर्गीतवादित्रनिस्वनैः । शङ्खघोःएन महता वीणावेणुरवेण च । कोलाहलैश्च भेर्याद्यैः कुर्याज्जागरणं हरेः ॥ ४६० ॥

Transliteration

puṇyāhaśabdairvipulairgītavāditranisvanaiḥ । śaṅkhaghoḥena mahatā vīṇāveṇuraveṇa ca । kolāhalaiśca bheryādyaiḥ kuryājjāgaraṇaṁ hareḥ ॥ 460 ॥

19.461

Śloka

यस्त्वेवं विधिना भक्त्या कुर्याद्देवाधिवासनम् । स सर्वतीर्थयज्ञानां दानानां तपसां तथा ॥ ४६१ ॥

Transliteration

yastvevaṁ vidhinā bhaktyā kuryāddevādhivāsanam । sa sarvatīrthayajñānāṁ dānānāṁ tapasāṁ tathā ॥ 461 ॥

19.462

Śloka

फलं शतगुणं प्राप्य विष्णोर्लोके महीयते । आहूतसप्लवं यावद्देववत्तत्र मोदते ॥ ४६२ ॥

Transliteration

phalaṁ śataguṇaṁ prāpya viṣṇorloke mahīyate । āhūtasaplavaṁ yāvaddevavattatra modate ॥ 462 ॥

19.463

Śloka

प्रातः प्रासादगर्तं तु पुष्पाद्भिः प्रोक्ष्य सर्वतः । निश्चित्य मध्यमैशान्यां गर्तं कृत्वार्पयेच्छिलाम् ॥ ४६३ ॥

Transliteration

prātaḥ prāsādagartaṁ tu puṣpādbhiḥ prokṣya sarvataḥ । niścitya madhyamaiśānyāṁ gartaṁ kṛtvārpayecchilām ॥ 463 ॥

19.464

Śloka

अधिवास्य ततो विष्णुं श्वभ्रं कुर्यात् समाहितः । प्रासादस्यानुरूपेण प्रतिमायाश्च भारत ॥ ४६४ ॥

Transliteration

adhivāsya tato viṣṇuṁ śvabhraṁ kuryāt samāhitaḥ । prāsādasyānurūpeṇa pratimāyāśca bhārata ॥ 464 ॥

19.465

Śloka

प्रासादं प्रोक्ष्य सर्वत्र मन्त्रपूतेन वारिणा । पातयेत् पक्षसूत्राणि द्वारसूत्रं तथैव च ॥ ४६५ ॥

Transliteration

prāsādaṁ prokṣya sarvatra mantrapūtena vāriṇā । pātayet pakṣasūtrāṇi dvārasūtraṁ tathaiva ca ॥ 465 ॥

19.466

Śloka

ततो मध्यं समं गृह्य कर्तव्यं स्थिरमादरात् । कुर्यात् श्वम्र-प्रमाणेन कृष्णस्याद्भुतकर्मणः । श्वभ्राधस्तान्न्यसेत् पूर्वं शिलां ब्रह्मात्मिकां शुभाम् ॥ ४६६ ॥

Transliteration

tato madhyaṁ samaṁ gṛhya kartavyaṁ sthiramādarāt । kuryāt śvamra-pramāṇena kṛṣṇasyādbhutakarmaṇaḥ । śvabhrādhastānnyaset pūrvaṁ śilāṁ brahmātmikāṁ śubhām ॥ 466 ॥

19.467

Śloka

कृत्वाधिवासं देवानां श्वभ्रं कुर्यात् समाहितः । प्रासादार्चानुरूपेण मानाल्लिङ्गस्य वा पुनः ॥ ४६७ ॥

Transliteration

kṛtvādhivāsaṁ devānāṁ śvabhraṁ kuryāt samāhitaḥ । prāsādārcānurūpeṇa mānālliṅgasya vā punaḥ ॥ 467 ॥

19.468

Śloka

पुष्पोदकेण प्रासादं प्रोक्ष्य मन्त्रयुतेन तु । पातयेत् पक्षसूत्राणि द्वारसूत्रं तथैव च ॥ ४६८ ॥

Transliteration

puṣpodakeṇa prāsādaṁ prokṣya mantrayutena tu । pātayet pakṣasūtrāṇi dvārasūtraṁ tathaiva ca ॥ 468 ॥

19.469

Śloka

आश्रयेत् किञ्चिदैशानी मध्यं कृत्वा दिशं बुधः । ऐशानीमाश्रितं देवं पूजयन्ति दिवौकसः ॥ ४६९ ॥

Transliteration

āśrayet kiñcidaiśānī madhyaṁ kṛtvā diśaṁ budhaḥ । aiśānīmāśritaṁ devaṁ pūjayanti divaukasaḥ ॥ 469 ॥

19.470

Śloka

आयुरारोग्यफलदमथवोत्तरमाश्रितम् । शुभं स्यादशुभं प्रोक्तमन्यथा स्थापनं बुधैः । अधः कूर्मशिला प्रोक्ता सदा ब्रह्मशिलाधिका ॥ ४७० ॥

Transliteration

āyurārogyaphaladamathavottaramāśritam । śubhaṁ syādaśubhaṁ proktamanyathā sthāpanaṁ budhaiḥ । adhaḥ kūrmaśilā proktā sadā brahmaśilādhikā ॥ 470 ॥

19.471

Śloka

अधिवास्य विधानेन देवदेवं हरिं प्रभुम् । पिण्डिकास्थापनार्थाय गर्तागारं विशेद्गुरुः ॥ ४७१ ॥

Transliteration

adhivāsya vidhānena devadevaṁ hariṁ prabhum । piṇḍikāsthāpanārthāya gartāgāraṁ viśedguruḥ ॥ 471 ॥

19.472

Śloka

यादृशं गर्तंगेहं तु कृतं सुरगणार्चितम् । संविभज्य प्रकूर्वीत सप्तभागं विचक्षणः । पुनश्च सप्तधा कृत्वा स्थानभागं प्रकल्पयेत् ॥ ४७२ ॥

Transliteration

yādṛśaṁ gartaṁgehaṁ tu kṛtaṁ suragaṇārcitam । saṁvibhajya prakūrvīta saptabhāgaṁ vicakṣaṇaḥ । punaśca saptadhā kṛtvā sthānabhāgaṁ prakalpayet ॥ 472 ॥

19.473

Śloka

ब्रह्मभागं भवेन्मध्यं देवं स्यात्तदनन्तरम् । तृतीयं मानुषं भागं पैशाचं तु चतुर्थकम् ॥ ४७३ ॥

Transliteration

brahmabhāgaṁ bhavenmadhyaṁ devaṁ syāttadanantaram । tṛtīyaṁ mānuṣaṁ bhāgaṁ paiśācaṁ tu caturthakam ॥ 473 ॥

19.474

Śloka

द्विभुजं ध्यानयोगस्थं निविष्टं स्थितमेव च । चतुर्भुजं वा ब्राह्मे तु भागे संस्थापयेद्धरिम् ॥ ४७४ ॥

Transliteration

dvibhujaṁ dhyānayogasthaṁ niviṣṭaṁ sthitameva ca । caturbhujaṁ vā brāhme tu bhāge saṁsthāpayeddharim ॥ 474 ॥

19.475

Śloka

ब्राह्मभागं परित्यज्य किञ्चिदाश्रित्य वा द्विजः । सदैव स्थापयेद्देवं देवमानुषभागयोः ॥ ४७५ ॥

Transliteration

brāhmabhāgaṁ parityajya kiñcidāśritya vā dvijaḥ । sadaiva sthāpayeddevaṁ devamānuṣabhāgayoḥ ॥ 475 ॥

19.476

Śloka

देवमानुषभागाभ्यां शयनं परिकल्पयेत् । दारवीं मृन्मयीं मूर्तिं देवस्थाने निवेशयेत् ॥ ४७६ ॥

Transliteration

devamānuṣabhāgābhyāṁ śayanaṁ parikalpayet । dāravīṁ mṛnmayīṁ mūrtiṁ devasthāne niveśayet ॥ 476 ॥

19.477

Śloka

मानुषं किञ्चिदाश्रित्य आसीनं स्थापयेद्धरिम् । नरसिंहं वराहञ्च देवभागे नियोजयेत् ॥ ४७७ ॥

Transliteration

mānuṣaṁ kiñcidāśritya āsīnaṁ sthāpayeddharim । narasiṁhaṁ varāhañca devabhāge niyojayet ॥ 477 ॥

19.478

Śloka

विघ्नेशमम्बिकां देवीं मातृर्भूतगणं तथा । आदित्यादीन् हरेरन्यानेवमादींस्तथा परान् । पैशाचे स्थापयेन् स्थाने नात्र कार्या विचारणा ॥ ४७८ ॥

Transliteration

vighneśamambikāṁ devīṁ mātṛrbhūtagaṇaṁ tathā । ādityādīn hareranyānevamādīṁstathā parān । paiśāce sthāpayen sthāne nātra kāryā vicāraṇā ॥ 478 ॥

19.479

Śloka

स्वस्थानवर्जिताः सर्वे भयदुःखामयप्रदाः । तस्मात् सर्वेण यत्नेन स्वस्थाने विनिवेशयेत् ॥ ४७९ ॥

Transliteration

svasthānavarjitāḥ sarve bhayaduḥkhāmayapradāḥ । tasmāt sarveṇa yatnena svasthāne viniveśayet ॥ 479 ॥

19.480

Śloka

श्रीमूर्त्या सह पिण्डीं च स्थापयित्वाभिपूज्य । रथेन मण्डपं नीत्वा संस्थाप्य पुनरर्चयेत् ॥ ४८० ॥

Transliteration

śrīmūrtyā saha piṇḍīṁ ca sthāpayitvābhipūjya । rathena maṇḍapaṁ nītvā saṁsthāpya punararcayet ॥ 480 ॥

19.481

Śloka

ततः प्रक्षालितां कृत्वा पञ्चगव्येन पिण्डिकाम् । कषायतोयेन पूनर्मन्त्रयूक्तेन सर्वतः । देवभार्यांश्रयं मन्त्रं पिण्डिकासु नियोजयोत् ॥ ४८१ ॥

Transliteration

tataḥ prakṣālitāṁ kṛtvā pañcagavyena piṇḍikām । kaṣāyatoyena pūnarmantrayūktena sarvataḥ । devabhāryāṁśrayaṁ mantraṁ piṇḍikāsu niyojayot ॥ 481 ॥

19.482

Śloka

श्रियः सूक्तेनार्चयीत प्रत्यूचं पिण्डिकामपि ॥ ४८२ ॥

Transliteration

śriyaḥ sūktenārcayīta pratyūcaṁ piṇḍikāmapi ॥ 482 ॥

19.483

Śloka

प्राग्वत् श्रीमूर्तिमुत्थाप्य याने चारोप्य मण्डपात् । प्रादक्षिण्येन सानन्दं नयेत् प्रासादमण्डपम् ॥ ४८३ ॥

Transliteration

prāgvat śrīmūrtimutthāpya yāne cāropya maṇḍapāt । prādakṣiṇyena sānandaṁ nayet prāsādamaṇḍapam ॥ 483 ॥

19.484

Śloka

तत उत्थाप्य देवेशं उत्तिष्ठ ब्रह्मणस्पते । आनीय गर्भभवनं पीठान्ते स्थापयेद्बुधः ॥ ४८४ ॥

Transliteration

tata utthāpya deveśaṁ uttiṣṭha brahmaṇaspate । ānīya garbhabhavanaṁ pīṭhānte sthāpayedbudhaḥ ॥ 484 ॥

19.485

Śloka

ततश्चोत्थापयेद्देवं मन्त्रेणानेन भूमिप । उत्तिष्ठ ब्रह्मणस्पते ब्रह्मघोषैश्च पुष्कलैः । पुण्याहजयघोषश्च शङ्खभेर्यादिनिस्वनैः ॥ ४८५ ॥

Transliteration

tataścotthāpayeddevaṁ mantreṇānena bhūmipa । uttiṣṭha brahmaṇaspate brahmaghoṣaiśca puṣkalaiḥ । puṇyāhajayaghoṣaśca śaṅkhabheryādinisvanaiḥ ॥ 485 ॥

19.486

Śloka

रथं चालङ्कृतं कृत्वा तस्मिंश्चारोपयेच्छनैः । रथे तिष्ठेति मन्त्रेण रथस्थं कारयेद्धरिम् ॥ ४८६ ॥

Transliteration

rathaṁ cālaṅkṛtaṁ kṛtvā tasmiṁścāropayecchanaiḥ । rathe tiṣṭheti mantreṇa rathasthaṁ kārayeddharim ॥ 486 ॥

19.487

Śloka

ग्रामं वा नगरं वापि शनैः कुर्यात् प्रदक्षिणम् । पुष्पैर्गन्धैस्तथान्नाद्यैः शकटं पूरयेच्छुभैः ॥ ४८७ ॥

Transliteration

grāmaṁ vā nagaraṁ vāpi śanaiḥ kuryāt pradakṣiṇam । puṣpairgandhaistathānnādyaiḥ śakaṭaṁ pūrayecchubhaiḥ ॥ 487 ॥

19.488

Śloka

शङ्खभेरीनिनादैश्च पताकाभिर्ध्वजैस्तथा । चामरैश्च वितानैश्च कलसैः पद्मशोभितैः ॥ ४८८ ॥

Transliteration

śaṅkhabherīninādaiśca patākābhirdhvajaistathā । cāmaraiśca vitānaiśca kalasaiḥ padmaśobhitaiḥ ॥ 488 ॥

19.489

Śloka

दीपदर्पणसंयुक्तैर्गीतमङ्गलनादितैः । बलिं प्रक्षिप्यमाणन्तु शनैर्गच्छेत् प्रदक्षिणम् ॥ ४८९ ॥

Transliteration

dīpadarpaṇasaṁyuktairgītamaṅgalanāditaiḥ । baliṁ prakṣipyamāṇantu śanairgacchet pradakṣiṇam ॥ 489 ॥

19.490

Śloka

अर्घ्यपाद्यादिकं दत्त्वा तत्र विश्रम्य च क्षणम् । तस्यां ब्रह्मशिलायां तु न्यसेद्रत्नादि मन्त्रतः ॥ ४९० ॥

Transliteration

arghyapādyādikaṁ dattvā tatra viśramya ca kṣaṇam । tasyāṁ brahmaśilāyāṁ tu nyasedratnādi mantrataḥ ॥ 490 ॥

19.491

Śloka

आनीय मण्डपे पश्चादर्घ्यं पाद्यं च दापयेत् । तस्मिन् मुहूर्ते विश्रम्य रत्नन्यासं तु कारयेत् ॥ ४९१ ॥

Transliteration

ānīya maṇḍape paścādarghyaṁ pādyaṁ ca dāpayet । tasmin muhūrte viśramya ratnanyāsaṁ tu kārayet ॥ 491 ॥

19.492

Śloka

सर्ववीजानि धातूंश्च रत्नान्योषधयस्तथा । काञ्चनं पद्मरागञ्च पारदेन समन्वितम् ॥ ४९२ ॥

Transliteration

sarvavījāni dhātūṁśca ratnānyoṣadhayastathā । kāñcanaṁ padmarāgañca pāradena samanvitam ॥ 492 ॥

19.493

Śloka

पद्मः कूर्मश्च पृथिवी गरुडश्चानुपूर्वशः । ब्रह्मस्थाने तु दातव्या मन्त्रपूता यथाविधि ॥ ४९३ ॥

Transliteration

padmaḥ kūrmaśca pṛthivī garuḍaścānupūrvaśaḥ । brahmasthāne tu dātavyā mantrapūtā yathāvidhi ॥ 493 ॥

19.494

Śloka

बीजं गाढं न कुर्वीत समूलांस्तान् प्रपातयेत् । बीजे गाढे महादोषो व्याधिदोषभयं भवेत् । बीजकानामलाभे तु स्वर्णं सर्वत्र विन्यसेत् ॥ ४९४ ॥

Transliteration

bījaṁ gāḍhaṁ na kurvīta samūlāṁstān prapātayet । bīje gāḍhe mahādoṣo vyādhidoṣabhayaṁ bhavet । bījakānāmalābhe tu svarṇaṁ sarvatra vinyaset ॥ 494 ॥

19.495

Śloka

अर्घ्यपाद्यादिकं तत्र मधुपर्कं प्रयोजयेत् । ततो मुहूर्तं विश्रम्य रत्नन्यासं समाचरेत् ॥ ४९५ ॥

Transliteration

arghyapādyādikaṁ tatra madhuparkaṁ prayojayet ।tato muhūrtaṁ viśramya ratnanyāsaṁ samācaret ॥ 495 ॥

19.496

Śloka

वज्रं मौक्तिकवैदूर्यं शङ्खं स्फटिकमेव च । पुष्परागेन्द्रनीलञ्च नीलं पूर्वादितः क्रमात् ॥ ४९६ ॥

Transliteration

vajraṁ mauktikavaidūryaṁ śaṅkhaṁ sphaṭikameva ca ।puṣparāgendranīlañca nīlaṁ pūrvāditaḥ kramāt ॥ 496 ॥

19.497

Śloka

तालकञ्च शिला-वज्रमञ्जनं श्याममेव च । काक्षीं काशीसमाक्षिकं गैरिकञ्चादितः क्रमात् ॥ ४९७ ॥

Transliteration

tālakañca śilā-vajramañjanaṁ śyāmameva ca । kākṣīṁ kāśīsamākṣikaṁ gairikañcāditaḥ kramāt ॥ 497 ॥

19.498

Śloka

गोधूमञ्च यवं तद्वत्तिलमुद्गं तथैव च । नीवारमथ श्यामाकं सर्षपं ब्रीहिमेव च ॥ ४९८ ॥

Transliteration

godhūmañca yavaṁ tadvattilamudgaṁ tathaiva ca । nīvāramatha śyāmākaṁ sarṣapaṁ brīhimeva ca ॥ 498 ॥

19.499

Śloka

न्यसेत् क्रमेण पूर्वादौ चन्दनं रक्तचन्दनम् । अगुरुं चाञ्जनं चैव उशीरञ्च ततः परम् । वैष्णवीं सहदेवीञ्च लक्षणाञ्च ततः परम् ॥ ४९९ ॥

Transliteration

nyaset krameṇa pūrvādau candanaṁ raktacandanam । aguruṁ cāñjanaṁ caiva uśīrañca tataḥ param । vaiṣṇavīṁ sahadevīñca lakṣaṇāñca tataḥ param ॥ 499 ॥

19.500

Śloka

स्वलोकपालनाम्ना तु न्यसेदोङ्कारपूर्वकम् ॥ ५०० ॥

Transliteration

svalokapālanāmnā tu nyasedoṅkārapūrvakam ॥ 500 ॥