Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

Vilāsa 19

prātiṣṭhikaḥ

19.101

Śloka

अपि पापसमाचारः सर्वलक्षणवर्जितः । देशिकः स तु विज्ञेयः ससारार्णवतारकः ॥ १०१ ॥

Transliteration

api pāpasamācāraḥ sarvalakṣaṇavarjitaḥ । deśikaḥ sa tu vijñeyaḥ sasārārṇavatārakaḥ ॥ 101 ॥

19.102

Śloka

पञ्चरात्रप्रबुद्धस्तु सिद्धान्तार्थस्य तत्त्ववित् । सर्वलक्षणहीनोऽपि आचार्यः स विशिष्यते ॥ १०२ ॥

Transliteration

pañcarātraprabuddhastu siddhāntārthasya tattvavit । sarvalakṣaṇahīno'pi ācāryaḥ sa viśiṣyate ॥ 102 ॥

19.103

Śloka

यस्य विष्णौ परा भक्तिर्यथा विष्णौ तथा गुरौ । स एव स्थापको ज्ञेयः सत्यमेतद्वदामि ते ॥ १०३ ॥

Transliteration

yasya viṣṇau parā bhaktiryathā viṣṇau tathā gurau । sa eva sthāpako jñeyaḥ satyametadvadāmi te ॥ 103 ॥

19.104

Śloka

येन तन्त्रेण प्रारब्धा प्रतिष्ठा गुरुणा भवेत् । तत्तन्त्रपारगाः शस्ताः मूर्तिपाश्छिन्नसंशया ॥ १०४ ॥

Transliteration

yena tantreṇa prārabdhā pratiṣṭhā guruṇā bhavet । tattantrapāragāḥ śastāḥ mūrtipāśchinnasaṁśayā ॥ 104 ॥

19.105

Śloka

षडङ्गविदुषः सर्वे मन्त्रब्राह्मणपारगाः । एवंविधैर्वैष्णवैस्तु प्रतिष्ठामारभेद्गुरुः ॥ १०५ ॥

Transliteration

ṣaḍaṅgaviduṣaḥ sarve mantrabrāhmaṇapāragāḥ । evaṁvidhairvaiṣṇavaistu pratiṣṭhāmārabhedguruḥ ॥ 105 ॥

19.106

Śloka

शैवः सौरो नैष्ठिकश्च नग्नः सङ्करजोऽशुचिः । वृद्धः कुत्सितमूर्तिर्यो महापातकचिह्नितः ॥ १०६ ॥

Transliteration

śaivaḥ sauro naiṣṭhikaśca nagnaḥ saṅkarajo'śuciḥ । vṛddhaḥ kutsitamūrtiryo mahāpātakacihnitaḥ ॥ 106 ॥

19.107

Śloka

कुष्ठी च कुनखी श्वित्री निष्ठीवी घर्घरस्वरः । अर्वुदी गण्डवी व्यङ्गी गर्वितो वधिरस्तथा ॥ १०७ ॥

Transliteration

kuṣṭhī ca kunakhī śvitrī niṣṭhīvī ghargharasvaraḥ । arvudī gaṇḍavī vyaṅgī garvito vadhirastathā ॥ 107 ॥

19.108

Śloka

तन्त्रविद्वेषिकश्चैव परद्रोहरतस्तथा । कुण्डः काकस्वरः क्लीवः कातरः क्रोधनस्तथा ॥ १०८ ॥

Transliteration

tantravidveṣikaścaiva paradroharatastathā । kuṇḍaḥ kākasvaraḥ klīvaḥ kātaraḥ krodhanastathā ॥ 108 ॥

19.109

Śloka

पुनर्भूश्च स्वयम्भूश्च गोलको नास्तिकस्तथा । जडोऽतिगौरः खल्वीटो हीनाङ्गः स्थूल एव च ॥ १०९ ॥

Transliteration

punarbhūśca svayambhūśca golako nāstikastathā । jaḍo'tigauraḥ khalvīṭo hīnāṅgaḥ sthūla eva ca ॥ 109 ॥

19.110

Śloka

अतिकृष्णोऽधृणः पापी कृशो ह्रस्वोऽलसस्तथा । व्यापन्नोऽसंस्कृतश्चैव उद्विग्नो दीन एव च ॥ ११० ॥

Transliteration

atikṛṣṇo'dhṛṇaḥ pāpī kṛśo hrasvo'lasastathā । vyāpanno'saṁskṛtaścaiva udvigno dīna eva ca ॥ 110 ॥

19.111

Śloka

व्रतोपवासहीनश्च वृषलीपतिरेव च । पण्यरङ्गोपजैवी च पण्यस्त्री-पारदारिकः ॥ १११ ॥

Transliteration

vratopavāsahīnaśca vṛṣalīpatireva ca । paṇyaraṅgopajaivī ca paṇyastrī-pāradārikaḥ ॥ 111 ॥

19.112

Śloka

आचार्यपुत्रकादीनां विद्वेष्टा परसेवकः । भोजकः सुवकश्चैव व्यसनी पिशुनी गदी ॥ ११२ ॥

Transliteration

ācāryaputrakādīnāṁ vidveṣṭā parasevakaḥ । bhojakaḥ suvakaścaiva vyasanī piśunī gadī ॥ 112 ॥

19.113

Śloka

अतिर्रोगी भिषक् चैव साहसी समयच्युतः । द्विजातिगुरुदेवानां निन्दकः पापकस्तथा ॥ ११३ ॥

Transliteration

atirrogī bhiṣak caiva sāhasī samayacyutaḥ । dvijātigurudevānāṁ nindakaḥ pāpakastathā ॥ 113 ॥

19.114

Śloka

पिङ्गाक्षो धूम्रवर्णाक्षो विडालाक्षस्तथैव च । मत्सरी गण्डमाली च वकवृत्तिरतस्तथा ॥ ११४ ॥

Transliteration

piṅgākṣo dhūmravarṇākṣo viḍālākṣastathaiva ca । matsarī gaṇḍamālī ca vakavṛttiratastathā ॥ 114 ॥

19.115

Śloka

उपायदेशहीनश्च कक्खटः कुत्सितव्रतः । निर्दयश्चैव निःसत्त्वो नैपुण्यपरिवर्जितः । प्रतिष्ठातन्त्रकिञ्चिज्ज्ञोऽवेदवेदाङ्गपारगः ॥ ११५ ॥

Transliteration

upāyadeśahīnaśca kakkhaṭaḥ kutsitavrataḥ । nirdayaścaiva niḥsattvo naipuṇyaparivarjitaḥ । pratiṣṭhātantrakiñcijjño'vedavedāṅgapāragaḥ ॥ 115 ॥

19.116

Śloka

वर्जयीत प्रयत्नेन सर्वज्ञमपि नास्तिकम् ॥ ११६ ॥

Transliteration

varjayīta prayatnena sarvajñamapi nāstikam ॥ 116 ॥

19.117

Śloka

परवाक्यप्रमाणज्ञो ब्राह्मणो वेदपारगः । रञ्जितः पशुशास्त्रेण नाचर्येत स देशिकः ॥ ११७ ॥

Transliteration

paravākyapramāṇajño brāhmaṇo vedapāragaḥ । rañjitaḥ paśuśāstreṇa nācaryeta sa deśikaḥ ॥ 117 ॥

19.118

Śloka

यद्येतैर्वर्जितैर्विष्णोः स्थापन क्रियते क्वचित् । असाधकं भुक्तिमुक्त्योर्निष्फलं तन्न संशयः ॥ ११८ ॥

Transliteration

yadyetairvarjitairviṣṇoḥ sthāpana kriyate kvacit । asādhakaṁ bhuktimuktyorniṣphalaṁ tanna saṁśayaḥ ॥ 118 ॥

19.119

Śloka

नाभिषेकं तु यः कुर्यात् प्रतिष्ठालोभमोहितः । स वाति नरकं घोरं सह शिष्यैर्न संशयः ॥ ११९ ॥

Transliteration

nābhiṣekaṁ tu yaḥ kuryāt pratiṣṭhālobhamohitaḥ । sa vāti narakaṁ ghoraṁ saha śiṣyairna saṁśayaḥ ॥ 119 ॥

19.120

Śloka

इदानीमचलायास्तु श्रीमूर्तेः प्राग्विलिख्यते । प्रतिष्ठाविधिराकृष्य शास्त्रतः साधुसम्मतः ॥ १२० ॥

Transliteration

idānīmacalāyāstu śrīmūrteḥ prāgvilikhyate । pratiṣṭhāvidhirākṛṣya śāstrataḥ sādhusammataḥ ॥ 120 ॥

19.121

Śloka

सुस्नातः शुक्लवस्त्रः सन् कृतकृत्यः शुभक्षणे । तिथ्यृक्षदैवते विघ्नेश्वरं मातृश्च पूजयेत् ॥ १२१ ॥

Transliteration

susnātaḥ śuklavastraḥ san kṛtakṛtyaḥ śubhakṣaṇe । tithyṛkṣadaivate vighneśvaraṁ mātṛśca pūjayet ॥ 121 ॥

19.122

Śloka

गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः । धृतिः पुष्टिश्च तुष्टिश्च शान्तिः स्वकुलदेवता ॥ १२२ ॥

Transliteration

gaurī padmā śacī medhā sāvitrī vijayā jayā । devasenā svadhā svāhā mātaro lokamātaraḥ । dhṛtiḥ puṣṭiśca tuṣṭiśca śāntiḥ svakuladevatā ॥ 122 ॥

19.123

Śloka

वृद्धिश्राद्धं ततः कृत्वा विधिवद्वृणुयाद्बुधः । आचार्यं मधुपर्कादिदानेनाथ समर्चयेत् ॥ १२३ ॥

Transliteration

vṛddhiśrāddhaṁ tataḥ kṛtvā vidhivadvṛṇuyādbudhaḥ । ācāryaṁ madhuparkādidānenātha samarcayet ॥ 123 ॥

19.124

Śloka

एवं ब्रह्मचतुष्कञ्च तथा होतृचतुष्टयम् । द्वारजापि-चतुष्कञ्च पञ्चमं गर्भजापिनम् ॥ १२४ ॥

Transliteration

evaṁ brahmacatuṣkañca tathā hotṛcatuṣṭayam । dvārajāpi-catuṣkañca pañcamaṁ garbhajāpinam ॥ 124 ॥

19.125

Śloka

तथा मूर्तिधरं चैकं पुराणस्तुतिपाठकम् । सर्वान् सम्पूज्य पुण्याहं स्वस्त्याद्येतैस्तु वाचयेत् ॥ १२५ ॥

Transliteration

tathā mūrtidharaṁ caikaṁ purāṇastutipāṭhakam । sarvān sampūjya puṇyāhaṁ svastyādyetaistu vācayet ॥ 125 ॥

19.126

Śloka

मितं षोडशभिर्हस्तैः किंवा द्वादशभिश्च तैः । दशभिर्वा प्रकुर्वीत मण्डपं समलङ्कृतम् ॥ १२६ ॥

Transliteration

mitaṁ ṣoḍaśabhirhastaiḥ kiṁvā dvādaśabhiśca taiḥ । daśabhirvā prakurvīta maṇḍapaṁ samalaṅkṛtam ॥ 126 ॥

19.127

Śloka

सप्तधान्याङ्कुरोपेतं नदीमृद्वालुकाचितम् । तोरणादियुतं दिव्यं शङ्खभेर्यादिनादितम् ॥ १२७ ॥

Transliteration

saptadhānyāṅkuropetaṁ nadīmṛdvālukācitam । toraṇādiyutaṁ divyaṁ śaṅkhabheryādināditam ॥ 127 ॥

19.128

Śloka

प्रासादान्नातिदूरे तु कुर्यान्मण्डपमग्रतः । दशद्वादशहस्तं वा परिक्षिप्तं समन्ततः ॥ १२८ ॥

Transliteration

prāsādānnātidūre tu kuryānmaṇḍapamagrataḥ । daśadvādaśahastaṁ vā parikṣiptaṁ samantataḥ ॥ 128 ॥

19.129

Śloka

चतुर्भिस्तोरणैर्युक्त पुष्पदामाभिशोभितम् । प्लक्षोडुम्बरमश्वत्थं वटः पूर्वादितः क्रमात् ॥ १२९ ॥

Transliteration

caturbhistoraṇairyukta puṣpadāmābhiśobhitam । plakṣoḍumbaramaśvatthaṁ vaṭaḥ pūrvāditaḥ kramāt ॥ 129 ॥

19.130

Śloka

हस्तं प्रवेशयेद्भूमौ दृश्य हस्तचतुष्टयम् । सूपलिप्तं सुसमृष्टं चतुर्द्वारेण संयुतम् ॥ १३० ॥

Transliteration

hastaṁ praveśayedbhūmau dṛśya hastacatuṣṭayam । sūpaliptaṁ susamṛṣṭaṁ caturdvāreṇa saṁyutam ॥ 130 ॥

19.131

Śloka

स्थण्डिलस्योपरि क्षिप्त समन्ताटुपशोभितम् । नदीतीरमृदा युक्तं बालुकायाञ्च कारितम् ॥ १३१ ॥

Transliteration

sthaṇḍilasyopari kṣipta samantāṭupaśobhitam । nadītīramṛdā yuktaṁ bālukāyāñca kāritam ॥ 131 ॥

19.132

Śloka

प्रासादस्योत्तरे वापि पूर्व वा मण्डपो भवेत् ॥ १३२ ॥

Transliteration

prāsādasyottare vāpi pūrva vā maṇḍapo bhavet ॥ 132 ॥

19.133

Śloka

हस्तान् षोडश कुर्वीत दश द्वादश वा पुनः । मध्ये वेदिकया युक्तः परिक्षिप्तः समन्ततः ॥ १३३ ॥

Transliteration

hastān ṣoḍaśa kurvīta daśa dvādaśa vā punaḥ । madhye vedikayā yuktaḥ parikṣiptaḥ samantataḥ ॥ 133 ॥

19.134

Śloka

सप्त पञ्च चतुर्वापि करान् कुर्वीत वेदिकाम् । चतुर्भिस्तोरणैर्युक्तो मण्डपः स्याच्चतुर्मुखः ॥ १३४ ॥

Transliteration

sapta pañca caturvāpi karān kurvīta vedikām । caturbhistoraṇairyukto maṇḍapaḥ syāccaturmukhaḥ ॥ 134 ॥

19.135

Śloka

प्लक्षं द्वारं भवेत् पूर्वं याम्यमौडुम्बरं भवेत् । पश्चादश्वत्थघटितं नैयग्रोधं तथोत्तरम् ॥ १३५ ॥

Transliteration

plakṣaṁ dvāraṁ bhavet pūrvaṁ yāmyamauḍumbaraṁ bhavet ।paścādaśvatthaghaṭitaṁ naiyagrodhaṁ tathottaram ॥ 135 ॥

19.136

Śloka

भूमौ हस्तप्रविष्टानि चतुर्हस्तानि चोच्छ्रये । शोभनं भूतलं तत्र लिप्तञ्च गोमयाम्भसा । वस्त्रैर्नानाविधैस्तद्वत् पुष्पपल्लवशोभितम् ॥ १३६ ॥

Transliteration

bhūmau hastapraviṣṭāni caturhastāni cocchraye । śobhanaṁ bhūtalaṁ tatra liptañca gomayāmbhasā । vastrairnānāvidhaistadvat puṣpapallavaśobhitam ॥ 136 ॥

19.137

Śloka

प्रासादं वेष्टयित्वा तु कुर्यादगुप्ततरं बुधः । कृत्वा गुप्तं ततः पश्चाद्यागमण्डपमारभेत् ॥ १३७ ॥

Transliteration

prāsādaṁ veṣṭayitvā tu kuryādaguptataraṁ budhaḥ । kṛtvā guptaṁ tataḥ paścādyāgamaṇḍapamārabhet ॥ 137 ॥

19.138

Śloka

गर्भसूत्रं तु निःसार्यं प्रासादस्याग्रतो गुरुः । कृत्वा भूमिं तु निःशल्यां मण्डपं सूत्रयेत्ततः ॥ १३८ ॥

Transliteration

garbhasūtraṁ tu niḥsāryaṁ prāsādasyāgrato guruḥ । kṛtvā bhūmiṁ tu niḥśalyāṁ maṇḍapaṁ sūtrayettataḥ ॥ 138 ॥

19.139

Śloka

हीनस्तु मण्डपः कार्यो हीने त्वायतने सदा । उत्तमे तूत्तमः कार्यो मध्यमे मध्यमस्तथा ॥ १३९ ॥

Transliteration

hīnastu maṇḍapaḥ kāryo hīne tvāyatane sadā । uttame tūttamaḥ kāryo madhyame madhyamastathā ॥ 139 ॥

19.140

Śloka

दशाष्टहस्तं हीनं तु मध्यं द्वादशषोडशम् । विंशहस्तं चतुर्विंशमुत्तमस्योत्तम द्विज ॥ १४० ॥

Transliteration

daśāṣṭahastaṁ hīnaṁ tu madhyaṁ dvādaśaṣoḍaśam । viṁśahastaṁ caturviṁśamuttamasyottama dvija ॥ 140 ॥

19.141

Śloka

चतुर्हस्तादिमानानां प्रासादनां यथाक्रमम् । मण्डपानष्टहस्तादीन् कल्पयेद्द्वेदवृद्धितः ॥ १४१ ॥

Transliteration

caturhastādimānānāṁ prāsādanāṁ yathākramam । maṇḍapānaṣṭahastādīn kalpayeddvedavṛddhitaḥ ॥ 141 ॥

19.142

Śloka

समवृत्तं चतुर्द्वारं चतुस्तोरणभूषितम् । विचित्रस्तम्भविन्यासं रचनाचरितं शुभम् । धूपनिर्गमनोपेतं मण्डपं कारयेद्बुधः ॥ १४२ ॥

Transliteration

samavṛttaṁ caturdvāraṁ catustoraṇabhūṣitam । vicitrastambhavinyāsaṁ racanācaritaṁ śubham । dhūpanirgamanopetaṁ maṇḍapaṁ kārayedbudhaḥ ॥ 142 ॥

19.143

Śloka

मण्डपं मण्डयेदार्द्रशाखाभिस्तु समन्ततः । विमलेन वितानेन पताकाभिश्च भूषयेत् ॥ १४३ ॥

Transliteration

maṇḍapaṁ maṇḍayedārdraśākhābhistu samantataḥ । vimalena vitānena patākābhiśca bhūṣayet ॥ 143 ॥

19.144

Śloka

दर्पणैश्चामरैर्घण्टैः स्तम्भाम् वस्त्रैर्विभूषयेत् । कलसैर्घण्टिकाभिश्च साधारैर्गण्डुकैस्तथा ॥ १४४ ॥

Transliteration

darpaṇaiścāmarairghaṇṭaiḥ stambhām vastrairvibhūṣayet ।kalasairghaṇṭikābhiśca sādhārairgaṇḍukaistathā ॥ 144 ॥

19.145

Śloka

मण्डपं भूषयित्वैवं जाह्नवोवालुकां शुभाम् । बाह्यदेशेषु विकिरेत पञ्चगव्येन प्रोक्षयेत् ॥ १४५ ॥

Transliteration

maṇḍapaṁ bhūṣayitvaivaṁ jāhnavovālukāṁ śubhām । bāhyadeśeṣu vikireta pañcagavyena prokṣayet ॥ 145 ॥

19.146

Śloka

अश्वत्थोडुम्बरौ चैव न्यग्रोधः प्लक्षः एव च । तोरणार्थेषु कथिताः पूर्वादिषु ययाक्रमम् ॥ १४६ ॥

Transliteration

aśvatthoḍumbarau caiva nyagrodhaḥ plakṣaḥ eva ca । toraṇārtheṣu kathitāḥ pūrvādiṣu yayākramam ॥ 146 ॥

19.147

Śloka

एकहस्तं खनेद्भूमौ चतुर्हस्तं तथोच्छ्रये । द्विहस्तान्तरमन्योऽन्यं तोरणं सम्प्रकल्पयेत् ॥ १४७ ॥

Transliteration

ekahastaṁ khanedbhūmau caturhastaṁ tathocchraye ।dvihastāntaramanyo'nyaṁ toraṇaṁ samprakalpayet ॥ 147 ॥

19.148

Śloka

तिर्यक् फलकमानं स्यात् स्तम्भानामर्द्धमानतः । शैलाः पृथिवीमन्त्रेण स्थाप्याः पूज्यास्तु तोरणाः ॥ १४८ ॥

Transliteration

tiryak phalakamānaṁ syāt stambhānāmarddhamānataḥ । śailāḥ pṛthivīmantreṇa sthāpyāḥ pūjyāstu toraṇāḥ ॥ 148 ॥

19.149

Śloka

शुक्लवस्त्रयुगच्छन्नान् दर्भकिञ्जल्कसंयुतान् । पुष्पमालापरिक्षिप्तान् तोरणान् परिकल्पयेत् ॥ १४९ ॥

Transliteration

śuklavastrayugacchannān darbhakiñjalkasaṁyutān । puṣpamālāparikṣiptān toraṇān parikalpayet ॥ 149 ॥

19.150

Śloka

वृत्तं वा चतुरस्रं वा द्विषट्काष्ठाङ्गुलं तु वा । षट्चतुर्वाङ्गुलं कार्यं तोरणं निर्व्रणं भवेत् ॥ १५० ॥

Transliteration

vṛttaṁ vā caturasraṁ vā dviṣaṭkāṣṭhāṅgulaṁ tu vā । ṣaṭcaturvāṅgulaṁ kāryaṁ toraṇaṁ nirvraṇaṁ bhavet ॥ 150 ॥

19.151

Śloka

तोरणस्तम्भमूलेषु कलसान् मङ्गलाङ्कुरान् । प्रदद्यादुपरिष्टात्तु कुर्याचक्रं सुदर्शनम् । कलसं वर्द्धमानं वा वसुभागेन कल्पयेत् ॥ १५१ ॥

Transliteration

toraṇastambhamūleṣu kalasān maṅgalāṅkurān । pradadyādupariṣṭāttu kuryācakraṁ sudarśanam । kalasaṁ varddhamānaṁ vā vasubhāgena kalpayet ॥ 151 ॥

19.152

Śloka

नवेन चित्रवर्णेन वितानं कारयेच्छुभम् । अथवा शुक्लवर्णेन मध्ये जलजभूषितम् ॥ १५२ ॥

Transliteration

navena citravarṇena vitānaṁ kārayecchubham । athavā śuklavarṇena madhye jalajabhūṣitam ॥ 152 ॥

19.153

Śloka

उत्तमाधममध्यं तु प्रमाणं चास्य कीर्त्यते। मण्डपस्य प्रमाणन्तु ज्येष्ठं तस्य वितानकम् । मध्यमं वेदिकामात्रं कनिष्ठं मण्डलस्य तु ॥ १५३ ॥

Transliteration

uttamādhamamadhyaṁ tu pramāṇaṁ cāsya kīrtyate । maṇḍapasya pramāṇantu jyeṣṭhaṁ tasya vitānakam । madhyamaṁ vedikāmātraṁ kaniṣṭhaṁ maṇḍalasya tu ॥ 153 ॥

19.154

Śloka

तन्मण्डपस्य मध्ये तु वेदीं हस्तोच्छुरितां समाम् । पञ्चहस्तमितां दिव्यां चतुरस्रां प्रकल्पयेत् ॥ १५४ ॥

Transliteration

tanmaṇḍapasya madhye tu vedīṁ hastocchuritāṁ samām । pañcahastamitāṁ divyāṁ caturasrāṁ prakalpayet ॥ 154 ॥

19.155

Śloka

ऐशान्यां हस्तमात्राञ्च ग्रहवेदीं समाचरेत् । तथा कुण्डचतुष्कञ्च वेद्याः प्राच्यादिदिक्षु हि ॥ १५५ ॥

Transliteration

aiśānyāṁ hastamātrāñca grahavedīṁ samācaret । tathā kuṇḍacatuṣkañca vedyāḥ prācyādidikṣu hi ॥ 155 ॥

19.156

Śloka

तच्च हस्तमितं योनिवक्त्राढ्यं सत्रिमेखलम् । चतुरस्रार्द्धशीतांशुवर्तुलाब्जाकृति क्रमात् ॥ १५६ ॥

Transliteration

tacca hastamitaṁ yonivaktrāḍhyaṁ satrimekhalam ।caturasrārddhaśītāṁśuvartulābjākṛti kramāt ॥ 156 ॥

19.157

Śloka

दीक्षाविधौ पुरालेखि कुण्डलक्षणमत्र तु । चतुर्दिक्षु त्यजेद्वेदीमङ्गुलानि त्रयोदश ॥ १५७ ॥

Transliteration

dīkṣāvidhau purālekhi kuṇḍalakṣaṇamatra tu । caturdikṣu tyajedvedīmaṅgulāni trayodaśa ॥ 157 ॥

19.158

Śloka

आचार्यकुण्डं कुर्याच्च ग्रहवेद्यास्तु दक्षिणे । हस्तमात्रावटं तच्च चतुरस्रं सुलक्षणम् ॥ १५८ ॥

Transliteration

ācāryakuṇḍaṁ kuryācca grahavedyāstu dakṣiṇe । hastamātrāvaṭaṁ tacca caturasraṁ sulakṣaṇam ॥ 158 ॥

19.159

Śloka

त्रिभागेनार्द्धभागेन कुर्याद्वेदीं सुशोभनाम् । हस्तमात्रोच्छ्रिता कार्या मध्ये सम्यग्व्यवस्थिता ॥ १५९ ॥

Transliteration

tribhāgenārddhabhāgena kuryādvedīṁ suśobhanām । hastamātrocchritā kāryā madhye samyagvyavasthitā ॥ 159 ॥

19.160

Śloka

चतुष्कोणं भवेत् कुण्डं पूर्वस्यां दिशि सर्वदा । अर्द्धचन्द्रं भवेद्याम्यां वारुण्यां वर्तुलं भवेत् । पद्माभमुत्तरे भागे कुण्डं स्याद्द्विजसत्तम ॥ १६० ॥

Transliteration

catuṣkoṇaṁ bhavet kuṇḍaṁ pūrvasyāṁ diśi sarvadā । arddhacandraṁ bhavedyāmyāṁ vāruṇyāṁ vartulaṁ bhavet ।padmābhamuttare bhāge kuṇḍaṁ syāddvijasattama ॥ 160 ॥

19.161

Śloka

यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः । ऋत्विग्भिः सहितः पश्चाद्द्वारेण प्रविशेत्ततः ॥ १६१ ॥

Transliteration

yajamānaḥ sapatnīkaḥ putrapautrasamanvitaḥ । ṛtvigbhiḥ sahitaḥ paścāddvāreṇa praviśettataḥ ॥ 161 ॥

19.162

Śloka

न्यसेत्तस्य चतुर्द्वार्षु द्वौ द्वौ कुम्भौ यवोपरि । जलपूर्णौ स्वर्णगौ पल्लवादियुतौ शुभौ ॥ १६२ ॥

Transliteration

nyasettasya caturdvārṣu dvau dvau kumbhau yavopari । jalapūrṇau svarṇagau pallavādiyutau śubhau ॥ 162 ॥

19.163

Śloka

कृत्वैवं मण्डपं पूर्णं चतुर्द्वारेषु विन्यसेत् । अव्रणान् कलसानष्टौ जलकाञ्चनगर्भितान् ॥ १६३ ॥

Transliteration

kṛtvaivaṁ maṇḍapaṁ pūrṇaṁ caturdvāreṣu vinyaset । avraṇān kalasānaṣṭau jalakāñcanagarbhitān ॥ 163 ॥

19.164

Śloka

चूतपल्लवसंच्छन्नान् सितवस्त्रयुगान्वितान् । स्रक्चन्दनफलोपेतान् चन्दनोदकपूरितान् ॥ १६४ ॥

Transliteration

cūtapallavasaṁcchannān sitavastrayugānvitān । srakcandanaphalopetān candanodakapūritān ॥ 164 ॥

19.165

Śloka

अकालान् कलसानष्टौ चतुर्द्वारेषु स्थापयेत् । अन्तःकाञ्चनसंयुक्तान् फलपुष्पैरलङ्कृतान् ॥ १६५ ॥

Transliteration

akālān kalasānaṣṭau caturdvāreṣu sthāpayet । antaḥkāñcanasaṁyuktān phalapuṣpairalaṅkṛtān ॥ 165 ॥

19.166

Śloka

अहतैर्युगलैर्वस्त्रैर्ग्रीवायां तु निवेशितैः । चन्दनागुरुतोयेन पूरयित्वा यथाक्रमम् ॥ १६६ ॥

Transliteration

ahatairyugalairvastrairgrīvāyāṁ tu niveśitaiḥ । candanāgurutoyena pūrayitvā yathākramam ॥ 166 ॥

19.167

Śloka

शातकुम्भमयान् कुर्याद्राजतान् शुक्लजानथ । जलाढकप्रपूरांश्च लोहजान् कारयेद्दृढान् ॥ १६७ ॥

Transliteration

śātakumbhamayān kuryādrājatān śuklajānatha । jalāḍhakaprapūrāṁśca lohajān kārayeddṛḍhān ॥ 167 ॥

19.168

Śloka

मृन्मयान् कलसान् वापि पक्वविम्बोपमान् शुभान् । अष्टत्रिंशाधिकशतपलपूर्वांस्तु मृन्मयान् ॥ १६८ ॥

Transliteration

mṛnmayān kalasān vāpi pakvavimbopamān śubhān । aṣṭatriṁśādhikaśatapalapūrvāṁstu mṛnmayān ॥ 168 ॥

19.169

Śloka

आरक्तात् स्फोटरहितान् कालमण्डलवर्जितान् । आहृत्य कलसान् वस्त्रपूततोयेन पूरयेत् । सहिरण्यान् वस्त्रयुग्मबद्धकण्ठान्निवेशयेत् ॥ १६९ ॥

Transliteration

āraktāt sphoṭarahitān kālamaṇḍalavarjitān । āhṛtya kalasān vastrapūtatoyena pūrayet । sahiraṇyān vastrayugmabaddhakaṇṭhānniveśayet ॥ 169 ॥

19.170

Śloka

कुर्यादुत्तरतस्तस्मादधिवासनमण्डपात् । चतुर्हस्तं चतुर्द्वारकोणं स्नपनमण्डपम् ॥ १७० ॥

Transliteration

kuryāduttaratastasmādadhivāsanamaṇḍapāt । caturhastaṁ caturdvārakoṇaṁ snapanamaṇḍapam ॥ 170 ॥

19.171

Śloka

तत्रेष्टकाभिः पक्वाभिः द्वित्रिहस्ताञ्च वेदिकाम् । विदध्याद्भूतलं वाथ सकलं बालुकामयम् ॥ १७१ ॥

Transliteration

tatreṣṭakābhiḥ pakvābhiḥ dvitrihastāñca vedikām । vidadhyādbhūtalaṁ vātha sakalaṁ bālukāmayam ॥ 171 ॥

19.172

Śloka

एवं सुशोभनं कृत्वा मण्डपं तु सुतोरणम् । तस्यैवोत्तरपार्श्वे च कर्तव्यः स्नानमण्डपः । सुशोभनं तु कर्तव्यं स्थण्डिलं वालुकामयम् ॥ १७२ ॥

Transliteration

evaṁ suśobhanaṁ kṛtvā maṇḍapaṁ tu sutoraṇam । tasyaivottarapārśve ca kartavyaḥ snānamaṇḍapaḥ । suśobhanaṁ tu kartavyaṁ sthaṇḍilaṁ vālukāmayam ॥ 172 ॥

19.173

Śloka

एवं सतोरणं कृत्वा अधिवासनमण्डपम् । तस्याप्युत्तरतः कुर्यात् स्नानमण्डपमुत्तमम् । तदर्द्धेन त्रिभागेन चतुर्भागेन वा पुनः ॥ १७३ ॥

Transliteration

evaṁ satoraṇaṁ kṛtvā adhivāsanamaṇḍapam । tasyāpyuttarataḥ kuryāt snānamaṇḍapamuttamam । tadarddhena tribhāgena caturbhāgena vā punaḥ ॥ 173 ॥

19.174

Śloka

स्नानार्थं कलसार्थञ्च स्नानद्रव्यार्थमेव च । जलनिर्गमनोपेतमर्द्धेन स्नानमण्डपम् ॥ १७४ ॥

Transliteration

snānārthaṁ kalasārthañca snānadravyārthameva ca ।jalanirgamanopetamarddhena snānamaṇḍapam ॥ 174 ॥

19.175

Śloka

ऐशान्यां कलसार्थञ्च तस्माद्दक्षिणगोचरे । पूर्वस्यां मण्डपं कुर्याद्यागद्रव्यार्थमायतम् ॥ १७५ ॥

Transliteration

aiśānyāṁ kalasārthañca tasmāddakṣiṇagocare । pūrvasyāṁ maṇḍapaṁ kuryādyāgadravyārthamāyatam ॥ 175 ॥

19.176

Śloka

कृत्वा महोत्सवं न्यसेत् पताका विधिवद्गुरुः ॥ १७६ ॥

Transliteration

kṛtvā mahotsavaṁ nyaset patākā vidhivadguruḥ ॥ 176 ॥

19.177

Śloka

पूर्वणेन्द्रायुधाकारामाग्नेयामग्निसन्निभाम् । कृष्णाञ्चैव तु याम्यायां नैरृत्यां तु तथैव च ॥ १७७ ॥

Transliteration

pūrvaṇendrāyudhākārāmāgneyāmagnisannibhām । kṛṣṇāñcaiva tu yāmyāyāṁ nairṛtyāṁ tu tathaiva ca ॥ 177 ॥

19.178

Śloka

इन्द्रगोपनिभाकारां वारुण्यां चैव दापयेत् । शिरीषपुष्पप्रतिमां वायव्यां विनिवेशयेत् । कौवेर्यां पीतवर्णां तु ऐशान्यां पाण्डुरा भवेत् ॥ १७८ ॥

Transliteration

indragopanibhākārāṁ vāruṇyāṁ caiva dāpayet । śirīṣapuṣpapratimāṁ vāyavyāṁ viniveśayet । kauveryāṁ pītavarṇāṁ tu aiśānyāṁ pāṇḍurā bhavet ॥ 178 ॥

19.179

Śloka

ध्वजादिरोपणं कार्यं मण्डपस्य समन्ततः । ध्वजांश्च लोकपालानां सर्वदिक्षु निवेशयेत् । पताका जलदाकारा मध्ये स्यान्मण्डपस्य तु ॥ १७९ ॥

Transliteration

dhvajādiropaṇaṁ kāryaṁ maṇḍapasya samantataḥ । dhvajāṁśca lokapālānāṁ sarvadikṣu niveśayet । patākā jaladākārā madhye syānmaṇḍapasya tu ॥ 179 ॥

19.180

Śloka

पञ्चहस्तप्रमाणं तु ध्वजं कुर्याद्विचक्षणः । वैपुल्यं चास्य कुर्वीत षोडशाङ्गुलसंमितम् । सप्तहस्तोच्छ्रितं चास्य दण्डं कुर्यात् सुरोत्तम ॥ १८० ॥

Transliteration

pañcahastapramāṇaṁ tu dhvajaṁ kuryādvicakṣaṇaḥ । vaipulyaṁ cāsya kurvīta ṣoḍaśāṅgulasaṁmitam । saptahastocchritaṁ cāsya daṇḍaṁ kuryāt surottama ॥ 180 ॥

19.181

Śloka

सप्तहस्तास्ततो दीर्घा विस्तृता द्वादशाङ्गुलाः । द्विपञ्चहस्तदण्डेषु पताकास्तु निवेशयेत् ॥ १८१ ॥

Transliteration

saptahastāstato dīrghā vistṛtā dvādaśāṅgulāḥ । dvipañcahastadaṇḍeṣu patākāstu niveśayet ॥ 181 ॥

19.182

Śloka

वाह्यदेशे मण्डपस्य तोरणाभ्यन्तरे तथा । अष्टौ ध्वजाः स्थापनीयाः पूर्वादिक्रमयोगतः ॥ १८२ ॥

Transliteration

vāhyadeśe maṇḍapasya toraṇābhyantare tathā । aṣṭau dhvajāḥ sthāpanīyāḥ pūrvādikramayogataḥ ॥ 182 ॥

19.183

Śloka

अरुणोऽग्निनिभश्चैव कृष्णः शुक्लोऽथ पीतकः । रक्तवर्णस्तथा श्वेतः सर्ववर्णस्तथैव च ॥ १८३ ॥

Transliteration

aruṇo'gninibhaścaiva kṛṣṇaḥ śuklo'tha pītakaḥ । raktavarṇastathā śvetaḥ sarvavarṇastathaiva ca ॥ 183 ॥

19.184

Śloka

कुमुदः कुमुदाख्यश्च पुण्डरीकोऽथ वामनः । शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्टितः । इत्यते विष्णुलोकस्य दिक्पालगणनायकाः ॥ १८४ ॥

Transliteration

kumudaḥ kumudākhyaśca puṇḍarīko'tha vāmanaḥ । śaṅkukarṇaḥ sarvanetraḥ sumukhaḥ supratiṣṭitaḥ । ityate viṣṇulokasya dikpālagaṇanāyakāḥ ॥ 184 ॥

19.185

Śloka

कोटिसंख्यगुणैर्युक्ता पूजनीया यथाविशि ॥ १८५ ॥

Transliteration

koṭisaṁkhyaguṇairyuktā pūjanīyā yathāviśi ॥ 185 ॥

19.186

Śloka

गन्धपुष्पादिकं कुर्यात् स्वैः स्वैर्मन्त्रैरनुक्रमात् । बलिञ्च लोकपालेभ्यः स्वस्वमात्रैर्निवेदयेत् । ऊर्द्ध्वे तु ब्रह्मणे देयस्त्वधस्ताच्छेषवासुकेः ॥ १८६ ॥

Transliteration

gandhapuṣpādikaṁ kuryāt svaiḥ svairmantrairanukramāt । baliñca lokapālebhyaḥ svasvamātrairnivedayet । ūrddhve tu brahmaṇe deyastvadhastāccheṣavāsukeḥ ॥ 186 ॥

19.187

Śloka

संहितायान्तु ये मन्त्रास्तद्दैवत्याः श्रुतौ स्मृताः । तैः पूजा लोकपालानां कर्तव्या हि समन्ततः ॥ १८७ ॥

Transliteration

saṁhitāyāntu ye mantrāstaddaivatyāḥ śrutau smṛtāḥ । taiḥ pūjā lokapālānāṁ kartavyā hi samantataḥ ॥ 187 ॥

19.188

Śloka

ॐ आयाहीन्द्र महाराजाधिराज वज्रहस्त स्वबलवाहनावृत इहागच्छागच्छ तिष्ठ तिष्ठ पूर्वद्वारमभिरक्ष रक्षेत्यावाह्य ॐ त्रातारमिन्द्रमित्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् ॥ १८८ ॥

Transliteration

oṁ āyāhīndra mahārājādhirāja vajrahasta svabalavāhanāvṛta ihāgacchāgaccha tiṣṭha tiṣṭha pūrvadvāramabhirakṣa rakṣetyāvāhya oṁ trātāramindramityanenārghyaṁ dattvā gandhādibhirarcayet ॥ 188 ॥

19.189

Śloka

ॐ आयाहि चित्रभानो महाराजाधिराज शक्तिहस्त स्वबलवाहनावृत इहागच्छागच्छ तिष्ठ तिष्ठ आग्नेयीं दिशं रक्ष रक्षेत्यावाह्य ॐ अग्निर्मूर्द्धा दिव इत्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् ॥ १८९ ॥

Transliteration

oṁ āyāhi citrabhāno mahārājādhirāja śaktihasta svabalavāhanāvṛta ihāgacchāgaccha tiṣṭha tiṣṭha āgneyīṁ diśaṁ rakṣa rakṣetyāvāhya oṁ agnirmūrddhā diva ityanenārghyaṁ dattvā gandhādibhirarcayet ॥ 189 ॥

19.190

Śloka

ॐ आयाहि यम महाराजाधिराज दण्डहस्त स्वबलवाहनावृत रक्तान्तायललोचन इहागच्छागच्छ तिष्ठ तिष्ठ दक्षिणद्वारमभिरक्ष रक्षेत्यावाह्य ॐ वैवस्वतं संयमनमित्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् ॥ १९० ॥

Transliteration

oṁ āyāhi yama mahārājādhirāja daṇḍahasta svabalavāhanāvṛta raktāntāyalalocana ihāgacchāgaccha tiṣṭha tiṣṭha dakṣiṇadvāramabhirakṣa rakṣetyāvāhya oṁ vaivasvataṁ saṁyamanamityanenārghyaṁ dattvā gandhādibhirarcayet ॥ 190 ॥

19.191

Śloka

ॐ आयाहि नैरृत महाराजाधिराज स्वबलवाहनावृत खड्गहस्त महावल इहागच्छागच्छ तिष्ठ तिष्ठ नैरृतीं दिशमभिरक्ष रक्षेत्यावाह्य ॐ एष ते निरृते इत्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् ॥ १९१ ॥

Transliteration

oṁ āyāhi nairṛta mahārājādhirāja svabalavāhanāvṛta khaḍgahasta mahāvala ihāgacchāgaccha tiṣṭha tiṣṭha nairṛtīṁ diśamabhirakṣa rakṣetyāvāhya oṁ eṣa te nirṛte ityanenārghyaṁ dattvā gandhādibhirarcayet ॥ 191 ॥

19.192

Śloka

ॐ आयाहि वरुण महाराजाधिराज पाशहस्त स्वबलवाहनावृत इहागच्छागच्छ तिष्ठ तिष्ठ पश्चिमद्वारमभिरक्ष रक्षेत्यावाह्य ॐ उरु हि राजा वरुणश्चकारेत्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् ॥ १९२ ॥

Transliteration

oṁ āyāhi varuṇa mahārājādhirāja pāśahasta svabalavāhanāvṛta ihāgacchāgaccha tiṣṭha tiṣṭha paścimadvāramabhirakṣa rakṣetyāvāhya oṁ uru hi rājā varuṇaścakāretyanenārghyaṁ dattvā gandhādibhirarcayet ॥ 192 ॥

19.193

Śloka

ॐ आयाहि पवन महाराजाधिराज ध्वजहस्त स्वबलवाहनावृत इहागच्छागच्छ तिष्ठ तिष्ठ वायवीं दिशमभिरक्ष रक्षेत्यावाह्य ॐ वात आ वातु भेषजमित्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् ॥ १९३ ॥

Transliteration

oṁ āyāhi pavana mahārājādhirāja dhvajahasta svabalavāhanāvṛta ihāgacchāgaccha tiṣṭha tiṣṭha vāyavīṁ diśamabhirakṣa rakṣetyāvāhya oṁ vāta ā vātu bheṣajamityanenārghyaṁ dattvā gandhādibhirarcayet ॥ 193 ॥

19.194

Śloka

ॐ आयाहि सोम महाराजाधिराज शङ्खहस्त स्वबलाहनावृत इहागच्छागच्छ तिष्ठ तिष्ठ उत्तरद्वारमभिरक्ष रक्षेत्यावाह्य ॐ सोमं राजानमित्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् ॥ १९४ ॥

Transliteration

oṁ āyāhi soma mahārājādhirāja śaṅkhahasta svabalāhanāvṛta ihāgacchāgaccha tiṣṭha tiṣṭha uttaradvāramabhirakṣa rakṣetyāvāhya oṁ somaṁ rājānamityanenārghyaṁ dattvā gandhādibhirarcayet ॥ 194 ॥

19.195

Śloka

ॐ आयाहीशान महाराजाधिराज शूलहस्त स्वबलवाहनावृत इहागच्छागच्म तिष्ठ तिष्ठ ऐशानीं दिशमभिरक्ष रक्षेत्यावाह्य ॐ ईशानाय नमस्येत्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् ॥ १९५ ॥

Transliteration

oṁ āyāhīśāna mahārājādhirāja śūlahasta svabalavāhanāvṛta ihāgacchāgacma tiṣṭha tiṣṭha aiśānīṁ diśamabhirakṣa rakṣetyāvāhya oṁ īśānāya namasyetyanenārghyaṁ dattvā gandhādibhirarcayet ॥ 195 ॥

19.196

Śloka

ॐ आयाहि चतुर्मुख सर्वलोकाधिपते स्रुक्स्रुवहस्त स्वबलवाहनावृत इहागच्छागच्छ तिष्ठ तिष्ठ ऊर्द्ध्वां विशमभिरक्ष रक्षेत्यावाह्य ॐ हिरण्यगर्भः समवर्ततान इत्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् ॥ १९६ ॥

Transliteration

oṁ āyāhi caturmukha sarvalokādhipate sruksruvahasta svabalavāhanāvṛta ihāgacchāgaccha tiṣṭha tiṣṭha ūrddhvāṁ viśamabhirakṣa rakṣetyāvāhya oṁ hiraṇyagarbhaḥ samavartatāna ityanenārghyaṁ dattvā gandhādibhirarcayet ॥ 196 ॥

19.197

Śloka

ॐ आयाहि अनन्त महाराजाधिराज स्वबलवाहनावृत लाङ्गलहस्त इहागच्छागच्छ तिष्ठ तिष्ठ अधोदिशमभिरक्ष रक्षेत्यावाह्य ॐ नमोऽस्तु सर्पेभ्य इत्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् ॥ १९७ ॥

Transliteration

oṁ āyāhi ananta mahārājādhirāja svabalavāhanāvṛta lāṅgalahasta ihāgacchāgaccha tiṣṭha tiṣṭha adhodiśamabhirakṣa rakṣetyāvāhya oṁ namo'stu sarpebhya ityanenārghyaṁ dattvā gandhādibhirarcayet ॥ 197 ॥

19.198

Śloka

द्रव्याणि पर्वाण्याहृत्य कृत्वा कृष्णार्चनादिकम् । वेद्यामालिख्य चक्रादि शय्यादि रचयेत्ततः ॥ १९८ ॥

Transliteration

dravyāṇi parvāṇyāhṛtya kṛtvā kṛṣṇārcanādikam । vedyāmālikhya cakrādi śayyādi racayettataḥ ॥ 198 ॥

19.199

Śloka

पाषण्डान् नास्तिकान् सर्वान् देवब्राह्मणदूषकान् । दीक्षावहिष्कृतान् सर्वान् हेतुवादरतांस्तथा । निवार्य प्रारभेत् कर्म वैष्णवैर्दीक्षितैः सह ॥ १९९ ॥

Transliteration

pāṣaṇḍān nāstikān sarvān devabrāhmaṇadūṣakān । dīkṣāvahiṣkṛtān sarvān hetuvādaratāṁstathā । nivārya prārabhet karma vaiṣṇavairdīkṣitaiḥ saha ॥ 199 ॥

19.200

Śloka

आहृत्य सर्वद्रव्याणि स्रुक्स्रुवां विष्टराणि च । यज्ञपात्राणि सर्वाणि जाप्य यत्नेन देशिकः ॥ २०० ॥

Transliteration

āhṛtya sarvadravyāṇi sruksruvāṁ viṣṭarāṇi ca । yajñapātrāṇi sarvāṇi jāpya yatnena deśikaḥ ॥ 200 ॥