Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

Vilāsa 16

śrī-dāmodara-priyaḥ

16.201

Śloka

इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डे स्व-घोषं निमज्जन्तम् आख्यापयन्तम् । तदीयेशित-ज्ञेषु भक्तैर् जितत्वं पुनः प्रेमतस् तं शतावृत्ति वन्दे ॥ २०१ ॥

Transliteration

itīdṛk sva-līlābhir ānanda-kuṇḍe sva-ghoṣaṁ nimajjantam ākhyāpayantam । tadīyeśita-jñeṣu bhaktair jitatvaṁ punaḥ prematas taṁ śatāvṛtti vande ॥ 201 ॥

16.202

Śloka

वरं देव मोक्षं न मोक्षावधिं वा न चान्यं वृणेऽहं वरेशाद् अपीह । इदं ते वपुर् नाथ गोपाल-बालं सदा मे मनस्य् अविरास्तां किम् अन्यैः ॥ २०२ ॥

Transliteration

varaṁ deva mokṣaṁ na mokṣāvadhiṁ vā na cānyaṁ vṛṇe’haṁ vareśād apīha । idaṁ te vapur nātha gopāla-bālaṁ sadā me manasy avirāstāṁ kim anyaiḥ ॥ 202 ॥

16.203

Śloka

इदं ते मुखाम्भोजम् अव्यक्त-नीलैर् वृतं कुन्तलैः स्निग्ध-रक्तैश् च गोप्या । मुहुश् चुम्बितं बिम्ब-रक्ताधरं मे मनस्य् आविरास्ताम् अलं लक्ष-लाभैः ॥ २०३ ॥

Transliteration

idaṁ te mukhāmbhojam avyakta-nīlair vṛtaṁ kuntalaiḥ snigdha-raktaiś ca gopyā । muhuś cumbitaṁ bimba-raktādharaṁ me manasy āvirāstām alaṁ lakṣa-lābhaiḥ ॥ 203 ॥

16.204

Śloka

नमो देव दामोदरानन्त विष्णो प्रसीद प्रभो दुःख-जालाब्धि-मग्नम् । कृपा-दृष्टि-वृष्ट्यातिदीनं बतानु- गृहाणेश माम् अज्ञम् एध्य् अक्षि-दृश्यः ॥ २०४ ॥

Transliteration

namo deva dāmodarānanta viṣṇo prasīda prabho duḥkha-jālābdhi-magnam । kṛpā-dṛṣṭi-vṛṣṭyātidīnaṁ batānu- gṛhāṇeśa mām ajñam edhy akṣi-dṛśyaḥ ॥ 204 ॥

16.205

Śloka

कुबेरात्मजौ बद्ध-मूर्त्यैव यद्वत् त्वया मोचितौ भक्ति-भाजौ कृतौ च । तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥ २०५ ॥

Transliteration

kuberātmajau baddha-mūrtyaiva yadvat tvayā mocitau bhakti-bhājau kṛtau ca । tathā prema-bhaktiṁ svakāṁ me prayaccha na mokṣe graho me’sti dāmodareha ॥ 205 ॥

16.206

Śloka

नमस् तेऽस्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने त्वदीयोदरायाथ विश्वस्य धाम्ने । नमो राधिकायै त्वदीय-प्रियायै नमोऽनन्त-लीलाय देवाय तुभ्यम् ॥ २०६ ॥

Transliteration

namas te’stu dāmne sphurad-dīpti-dhāmne tvadīyodarāyātha viśvasya dhāmne । namo rādhikāyai tvadīya-priyāyai namo’nanta-līlāya devāya tubhyam ॥ 206 ॥

16.207

Śloka

गोवर्धन-गिरौ रम्ये राधा-कुण्डं प्रियं हरेः । कार्त्तिके बहुलाष्टम्यां तत्र स्नात्वा हरेः प्रियः । नरो भक्तो भवेद् विप्रास् तद् धि तस्य प्रतोषणम् ॥ २०७ ॥

Transliteration

govardhana-girau ramye rādhā-kuṇḍaṁ priyaṁ hareḥ । kārttike bahulāṣṭamyāṁ tatra snātvā hareḥ priyaḥ । naro bhakto bhaved viprās tad dhi tasya pratoṣaṇam ॥ 207 ॥

16.208

Śloka

यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा । सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ २०८ ॥

Transliteration

yathā rādhā priyā viṣṇos tasyāḥ kuṇḍaṁ priyaṁ tathā । sarva-gopīṣu saivaikā viṣṇor atyanta-vallabhā ॥ 208 ॥

16.209

Śloka

वृन्दावनाधिपत्यं च दत्तं तस्याः प्रतुष्यता । कृष्णेनान्यत्र देवी तु राधा वृन्दावने वने ॥ २०९ ॥

Transliteration

vṛndāvanādhipatyaṁ ca dattaṁ tasyāḥ pratuṣyatā । kṛṣṇenānyatra devī tu rādhā vṛndāvane vane ॥ 209 ॥

16.210

Śloka

तत्-कुण्डे कार्त्तिकाष्टम्यां स्नात्वा पूज्यो जनार्दनः । सुबोधन्यां यथा प्रीतस् तथा प्रीतस् ततो भवेत् ॥ २१० ॥

Transliteration

tat-kuṇḍe kārttikāṣṭamyāṁ snātvā pūjyo janārdanaḥ । subodhanyāṁ yathā prītas tathā prītas tato bhavet ॥ 210 ॥

16.211

Śloka

कार्त्तिके कृष्ण-पक्षे तु त्रयोदश्यां निशामुखे । यम-दीपं बहिर् दद्याद् अपमृत्युर् विनश्यति ॥ २११ ॥

Transliteration

kārttike kṛṣṇa-pakṣe tu trayodaśyāṁ niśāmukhe । yama-dīpaṁ bahir dadyād apamṛtyur vinaśyati ॥ 211 ॥

16.212

Śloka

मृत्युना पाश-दण्डाभ्यां कालौ श्यमलया सह । त्रयोदश्यां दीप-दानात् सूर्यजः प्रीयताम् इति ॥ २१२ ॥

Transliteration

mṛtyunā pāśa-daṇḍābhyāṁ kālau śyamalayā saha । trayodaśyāṁ dīpa-dānāt sūryajaḥ prīyatām iti ॥ 212 ॥

16.213

Śloka

चतुर्दश्यां धर्म-राज-पूजा कार्या प्रयत्नतः । स्नानम् आवश्यकं कार्यं नरैर् नरक-भीरुभिः ॥ २१३ ॥

Transliteration

caturdaśyāṁ dharma-rāja-pūjā kāryā prayatnataḥ । snānam āvaśyakaṁ kāryaṁ narair naraka-bhīrubhiḥ ॥ 213 ॥

16.214

Śloka

अरुणोदयतोऽन्यत्र रिक्तायां स्नाति यो नरः । तस्याब्दिकभवो धर्मो नश्यत्य् एव न संशयः ॥ २१४ ॥

Transliteration

aruṇodayato’nyatra riktāyāṁ snāti yo naraḥ । tasyābdikabhavo dharmo naśyaty eva na saṁśayaḥ ॥ 214 ॥

16.215

Śloka

कार्त्तिके कृष्ण-पक्षे तु चतुर्दश्यां विधूदये । अवश्यम् एव कर्तव्यं स्नानं नरक-भीरुभिः ॥ २१५ ॥

Transliteration

kārttike kṛṣṇa-pakṣe tu caturdaśyāṁ vidhūdaye । avaśyam eva kartavyaṁ snānaṁ naraka-bhīrubhiḥ ॥ 215 ॥

16.216

Śloka

ततश् च तर्पणं कार्यं धर्मराजस्य नामभिः । जीवत्-पिता तु कुर्वीत तर्पणं यम-भीष्मयोः ॥ २१६ ॥

Transliteration

tataś ca tarpaṇaṁ kāryaṁ dharmarājasya nāmabhiḥ । jīvat-pitā tu kurvīta tarpaṇaṁ yama-bhīṣmayoḥ ॥ 216 ॥

16.217

Śloka

यज्ञोपवीतिना कार्यं प्राचीनावीतिना तथा । देवत्वं च पितृत्वं च यमस्यास्ति द्वि-रूपता ॥ २१७ ॥

Transliteration

yajñopavītinā kāryaṁ prācīnāvītinā tathā । devatvaṁ ca pitṛtvaṁ ca yamasyāsti dvi-rūpatā ॥ 217 ॥

16.218

Śloka

नक्तं यम-चतुर्दश्यां यः कुर्याच् छिव-सन्निधौ । न तत् क्रतु-शतेनापि प्राप्यते पुण्यम् ईदृशम् ॥ २१८ ॥

Transliteration

naktaṁ yama-caturdaśyāṁ yaḥ kuryāc chiva-sannidhau । na tat kratu-śatenāpi prāpyate puṇyam īdṛśam ॥ 218 ॥

16.219

Śloka

कुमारी बटुकान् पूज्य तथा शैव-तपो-धनान् । राजसूय-फलं तेन प्राप्यते नात्र संशयः ॥ २१९ ॥

Transliteration

kumārī baṭukān pūjya tathā śaiva-tapo-dhanān । rājasūya-phalaṁ tena prāpyate nātra saṁśayaḥ ॥ 219 ॥

16.220

Śloka

कार्त्तिके भौम-वारेण चित्रा कृष्णा चतुर्दशी । तस्यां भुतेशम् अभ्यर्च्य गच्छेच् छिव-पुरं नरः ॥ २२० ॥

Transliteration

kārttike bhauma-vāreṇa citrā kṛṣṇā caturdaśī । tasyāṁ bhuteśam abhyarcya gacchec chiva-puraṁ naraḥ ॥ 220 ॥

16.221

Śloka

अमावस्या-चतुर्दश्योः प्रदोषे दीप-दानतः । यम-मार्गान्धकारेभ्यो मुच्यते कार्त्तिके नरः ॥ २२१ ॥

Transliteration

amāvasyā-caturdaśyoḥ pradoṣe dīpa-dānataḥ । yama-mārgāndhakārebhyo mucyate kārttike naraḥ ॥ 221 ॥

16.222

Śloka

दिवा तत्र न भोक्तव्यं विना बालातुरान् जनान् । प्रदोष-समये लक्ष्मीं पूजयेच् च यथा-क्रमम् ॥ २२२ ॥

Transliteration

divā tatra na bhoktavyaṁ vinā bālāturān janān । pradoṣa-samaye lakṣmīṁ pūjayec ca yathā-kramam ॥ 222 ॥

16.223

Śloka

प्रदोष-समये विप्राः कर्तव्या दीप-मालिकाः । दीप-दानात् ततः पश्चाल् लक्ष्मीं सुप्तां प्रबोधयेत् ॥ २२३ ॥

Transliteration

pradoṣa-samaye viprāḥ kartavyā dīpa-mālikāḥ । dīpa-dānāt tataḥ paścāl lakṣmīṁ suptāṁ prabodhayet ॥ 223 ॥

16.224

Śloka

त्वं ज्योतिः श्री-रविश् चन्द्रो विद्युत् सौवर्ण-तारकाः । सर्वेषां ज्योतिषां ज्योतिर् दीप-ज्योतिः स्थिते नमः ॥ २२४ ॥

Transliteration

tvaṁ jyotiḥ śrī-raviś candro vidyut sauvarṇa-tārakāḥ । sarveṣāṁ jyotiṣāṁ jyotir dīpa-jyotiḥ sthite namaḥ ॥ 224 ॥

16.225

Śloka

मन्त्रेणानेन कमलां दीप-हस्ताः स्त्रियो द्विजाः । देवीं प्रबोधयेयुश् च ततः कुरुअश् च भोजनम् ॥ २२५ ॥

Transliteration

mantreṇānena kamalāṁ dīpa-hastāḥ striyo dvijāḥ । devīṁ prabodhayeyuś ca tataḥ kuruaś ca bhojanam ॥ 225 ॥

16.226

Śloka

प्रदोष-समये लक्ष्मीं भोजयित्वा भुनक्ति यः । पुमान् संवत्सरं यावल् लक्ष्मीस् तं नैव मुञ्चति ॥ २२६ ॥

Transliteration

pradoṣa-samaye lakṣmīṁ bhojayitvā bhunakti yaḥ । pumān saṁvatsaraṁ yāval lakṣmīs taṁ naiva muñcati ॥ 226 ॥

16.227

Śloka

उपवासादिष्व् अमावस्या प्रतिपद्-युता ग्राह्या ॥ २२७ ॥

Transliteration

upavāsādiṣv amāvasyā pratipad-yutā grāhyā ॥ 227 ॥

16.228

Śloka

अमावास्या तृतीया च ता उपास्याः परान्विताः ॥ २२८ ॥

Transliteration

amāvāsyā tṛtīyā ca tā upāsyāḥ parānvitāḥ ॥ 228 ॥

16.229

Śloka

भूत-विद्धा त्व् अमावस्या निष्फलं स्यात् त्रयन्वितम् ॥ २२९ ॥

Transliteration

bhūta-viddhā tv amāvasyā niṣphalaṁ syāt trayanvitam ॥ 229 ॥

16.230

Śloka

भूत-विद्धा त्व् अमावस्या न ग्राह्या मुनि-पुङ्गवैः ॥ २३० ॥

Transliteration

bhūta-viddhā tv amāvasyā na grāhyā muni-puṅgavaiḥ ॥ 230 ॥

16.231

Śloka

प्रातर् गोवर्धनं पूज्य द्यूतं चैव समाचरेत् । भूषणीयास् तथा गावः पूज्याश् च दोह-वाहनाः ॥ २३१ ॥

Transliteration

prātar govardhanaṁ pūjya dyūtaṁ caiva samācaret । bhūṣaṇīyās tathā gāvaḥ pūjyāś ca doha-vāhanāḥ ॥ 231 ॥

16.232

Śloka

श्री-कृष्ण-दास-वर्योऽयं श्री-गोवर्धन-भूधरः । शुक्ल-प्रतिपदि प्रातः कार्त्तिकेऽच्र्योऽत्र वैष्णवैः ॥ २३२ ॥

Transliteration

śrī-kṛṣṇa-dāsa-varyo’yaṁ śrī-govardhana-bhūdharaḥ । śukla-pratipadi prātaḥ kārttike’cryo’tra vaiṣṇavaiḥ ॥ 232 ॥

16.233

Śloka

प्रातर् गोवर्धनं पूज्य रात्रौ जागरणं चरेत् ॥ २३३ ॥

Transliteration

prātar govardhanaṁ pūjya rātrau jāgaraṇaṁ caret ॥ 233 ॥

16.234

Śloka

प्रतिपद्-दर्श-संयोगे क्रीडनं तु गवां मतम् । पर-विद्धान् तु यः कुर्यात् पुत्र-दार-धन-क्षयः ॥ २३४ ॥

Transliteration

pratipad-darśa-saṁyoge krīḍanaṁ tu gavāṁ matam । para-viddhān tu yaḥ kuryāt putra-dāra-dhana-kṣayaḥ ॥ 234 ॥

16.235

Śloka

या कुहुः प्रतिपन् मिश्रा तत्र गाः पूजयेन् नृप । पूजा-मात्रेण वर्धन्ते प्रजा गावो महीपतिः ॥ २३५ ॥

Transliteration

yā kuhuḥ pratipan miśrā tatra gāḥ pūjayen nṛpa । pūjā-mātreṇa vardhante prajā gāvo mahīpatiḥ ॥ 235 ॥

16.236

Śloka

ततः—प्रातर् गोवर्धनं पूज्य ॥ २३६ ॥

Transliteration

tataḥ—prātar govardhanaṁ pūjya ॥ 236 ॥

16.237

Śloka

इति पूरोआह्न-तात्पर्यकं, द्वितीया-समये तु सर्वथा निषिद्धम् । तद् यथा— नन्दाया दर्शने रक्षा बलि-दानं दशासु च । भद्रायां गोकुल-क्रीडा देश-नाशाय जायते ॥ २३७ ॥

Transliteration

iti pūroāhna-tātparyakaṁ, dvitīyā-samaye tu sarvathā niṣiddham ।tad yathā— nandāyā darśane rakṣā bali-dānaṁ daśāsu ca । bhadrāyāṁ gokula-krīḍā deśa-nāśāya jāyate ॥ 237 ॥

16.238

Śloka

पुराण-समुच्चये तु सम्भावित-चन्द्रोदय-द्वितीया-संयोग एव निषिध्यते । गवां क्रीडा दिने यत्र रात्रौ दृश्येत चन्द्रमाः । सोमो राजा प्रशून् हन्ति सुरभि-पूजकांस् तथा ॥ २३८ ॥

Transliteration

purāṇa-samuccaye tu sambhāvita-candrodaya-dvitīyā-saṁyoga eva niṣidhyate । gavāṁ krīḍā dine yatra rātrau dṛśyeta candramāḥ । somo rājā praśūn hanti surabhi-pūjakāṁs tathā ॥ 238 ॥

16.239

Śloka

प्रतिपद्यापराह्निक-त्रि-मुहूर्त-व्यापिन्यां द्वितीयायां चन्द्र-दर्शनं सम्भाव्यते ॥ २३९ ॥

Transliteration

pratipadyāparāhnika-tri-muhūrta-vyāpinyāṁ dvitīyāyāṁ candra-darśanaṁ sambhāvyate ॥ 239 ॥

16.240

Śloka

द्वितीया त्रि-मुहूर्ता चेत् प्रतिपद्यापराह्निकी । अग्न्याधानं चतुर्दश्यां परतः सोम-दर्शनात् ॥ २४० ॥

Transliteration

dvitīyā tri-muhūrtā cet pratipadyāparāhnikī । agnyādhānaṁ caturdaśyāṁ parataḥ soma-darśanāt ॥ 240 ॥

16.241

Śloka

अपराह्नश् च पञ्चधा विभक्तस्याह्नश् चतुर्थो भागः । ततश् च यत्र प्रतिपदि यन्-मुहूर्त-व्यापिनी द्वितीया, तत्र चन्द्र-दर्शन-सम्भावनम् ॥ २४१ ॥

Transliteration

aparāhnaś ca pañcadhā vibhaktasyāhnaś caturtho bhāgaḥ । tataś ca yatra pratipadi yan-muhūrta-vyāpinī dvitīyā, tatra candra-darśana-sambhāvanam ॥ 241 ॥

16.242

Śloka

अन्यदा तु पुरैव प्रतिपत् तत्र गृहीता ॥ २४२ ॥

Transliteration

anyadā tu puraiva pratipat tatra gṛhītā ॥ 242 ॥

16.243

Śloka

वर्धमान-तिथौ नन्दा यदा सार्ध-त्रियामिका । द्वितीया-वृद्धि-गामित्वाद् उत्तरा तत्र चोच्यते ॥ २४३ ॥

Transliteration

vardhamāna-tithau nandā yadā sārdha-triyāmikā । dvitīyā-vṛddhi-gāmitvād uttarā tatra cocyate ॥ 243 ॥

16.244

Śloka

यदा पूर्ण-प्रतिपत् परत्र निक्रामति, तदाप्य् उत्तरैव कार्या ॥ २४४ ॥

Transliteration

yadā pūrṇa-pratipat paratra nikrāmati, tadāpy uttaraiva kāryā ॥ 244 ॥

16.245

Śloka

यथा द्वादशभिर् मासो वृद्धो मलिम्लुचः । तथैवाहो-रात्र-वृद्ध्या तिथिः प्रोक्ता मलिम्लुचा ॥ २४५ ॥

Transliteration

yathā dvādaśabhir māso vṛddho malimlucaḥ । tathaivāho-rātra-vṛddhyā tithiḥ proktā malimlucā ॥ 245 ॥

16.246

Śloka

यथा मलिम्लुचः पूर्व-मासो देवस् तथापरः । त्याज्या तिथिस् तथा पूर्वा ग्राह्या चैव तथोत्तरा ॥ २४६ ॥

Transliteration

yathā malimlucaḥ pūrva-māso devas tathāparaḥ । tyājyā tithis tathā pūrvā grāhyā caiva tathottarā ॥ 246 ॥

16.247

Śloka

किन्तु वञ्जुली-न्यायेन पूर्वैव मन्तुं शक्यते । तद्वद् अत्रापि देवलादि-वचन-प्रामाण्यम् अस्ति ॥ २४७ ॥

Transliteration

kintu vañjulī-nyāyena pūrvaiva mantuṁ śakyate । tadvad atrāpi devalādi-vacana-prāmāṇyam asti ॥ 247 ॥

16.248

Śloka

मथुरायास् तथान्यत्र कृत्वा गोवर्धनं गिरिम् । गोमयेन महा-स्थूलं तत्र पूज्यो गिरिर् यथा ॥ २४८ ॥

Transliteration

mathurāyās tathānyatra kṛtvā govardhanaṁ girim । gomayena mahā-sthūlaṁ tatra pūjyo girir yathā ॥ 248 ॥

16.249

Śloka

मथुरायां तथा साक्षात् कृत्वा चैव प्रदक्षिणम् । वैष्णवं धाम सम्प्राप्य मोदते हरि-सन्निधौ ॥ २४९ ॥

Transliteration

mathurāyāṁ tathā sākṣāt kṛtvā caiva pradakṣiṇam । vaiṣṇavaṁ dhāma samprāpya modate hari-sannidhau ॥ 249 ॥

16.250

Śloka

गोवर्धन धराधर गोकुल-त्राण-कारक । विष्णु-बाहु-कृतोच्छ्राय गवां कोटि-प्रदो भव ॥ २५० ॥

Transliteration

govardhana dharādhara gokula-trāṇa-kāraka । viṣṇu-bāhu-kṛtocchrāya gavāṁ koṭi-prado bhava ॥ 250 ॥

16.251

Śloka

लक्ष्मीर् या लोक-पालानां धेनु-रूपेण संस्थिता । घृतं वहति यज्ञार्थे यम-पाशं व्यपोहतु ॥ २५१ ॥

Transliteration

lakṣmīr yā loka-pālānāṁ dhenu-rūpeṇa saṁsthitā । ghṛtaṁ vahati yajñārthe yama-pāśaṁ vyapohatu ॥ 251 ॥

16.252

Śloka

अग्रतः सन्तु मे गावः गावो मे सन्तु पृष्ठतः । गावो मे पार्श्वतः सन्तु गवां मध्ये वसाम्य् अहम् ॥ २५२ ॥

Transliteration

agrataḥ santu me gāvaḥ gāvo me santu pṛṣṭhataḥ । gāvo me pārśvataḥ santu gavāṁ madhye vasāmy aham ॥ 252 ॥

16.253

Śloka

क्रोधापयेद् धावयेच् च गो-महिष्यादिकं ततः । वृषान् कर्षापयेद् गोपैर् उक्ति-प्रत्युक्ति-वदनात् ॥ २५३ ॥

Transliteration

krodhāpayed dhāvayec ca go-mahiṣyādikaṁ tataḥ । vṛṣān karṣāpayed gopair ukti-pratyukti-vadanāt ॥ 253 ॥

16.254

Śloka

महिष्यादेस् तथा भूषा क्रीदनं रावणं तथा ॥ २५४ ॥

Transliteration

mahiṣyādes tathā bhūṣā krīdanaṁ rāvaṇaṁ tathā ॥ 254 ॥

16.255

Śloka

एवं गोवर्धनं गाश् च पूजनीया विधानतः । गोवर्धन-मखो रम्यः कृष्ण-सन्तोष-कारकः ॥ २५५ ॥

Transliteration

evaṁ govardhanaṁ gāś ca pūjanīyā vidhānataḥ । govardhana-makho ramyaḥ kṛṣṇa-santoṣa-kārakaḥ ॥ 255 ॥

16.256

Śloka

लिखित्वा श्री-बलिं पट्टे विन्ध्यावल्यान्वितं मुदा । प्रदोषे तत्-प्रतिपदो भगवद्-भक्तम् अर्चयेत् ॥ २५६ ॥

Transliteration

likhitvā śrī-baliṁ paṭṭe vindhyāvalyānvitaṁ mudā । pradoṣe tat-pratipado bhagavad-bhaktam arcayet ॥ 256 ॥

16.257

Śloka

बलिम् आलिख्य दैत्येन्द्रं वर्णकैः पञ्च-रङ्गकैः । सर्वाभरण-सम्पूर्णं विन्ध्यावल्या सहासितम् ॥ २५७ ॥

Transliteration

balim ālikhya daityendraṁ varṇakaiḥ pañca-raṅgakaiḥ । sarvābharaṇa-sampūrṇaṁ vindhyāvalyā sahāsitam ॥ 257 ॥

16.258

Śloka

कुष्माण्ड-मय-जम्भोरु-मुर-दानव-संवृतम् । सम्पूर्ण-हृष्ट-वदनं किरीटोत्कट-कुण्डलम् । द्विभुजं दैत्य-राजानं कारयित्वार्चयेन् नृप ॥ २५८ ॥

Transliteration

kuṣmāṇḍa-maya-jambhoru-mura-dānava-saṁvṛtam । sampūrṇa-hṛṣṭa-vadanaṁ kirīṭotkaṭa-kuṇḍalam । dvibhujaṁ daitya-rājānaṁ kārayitvārcayen nṛpa ॥ 258 ॥

16.259

Śloka

यथार्पितं देहम् अनेन विष्णवे भीतेन मिथ्या-वचसो महात्मना । दैत्येन तेनाथ कठोर-चेष्टया बद्धो बलिर् वामन-मूर्तिना बत ॥ २५९ ॥

Transliteration

yathārpitaṁ deham anena viṣṇave bhītena mithyā-vacaso mahātmanā । daityena tenātha kaṭhora-ceṣṭayā baddho balir vāmana-mūrtinā bata ॥ 259 ॥

16.260

Śloka

बद्ध्वानीतोऽथ पातालं विमनाः खिन-मानसः । नाभ्यसूयद् धरिं दैत्यस् त्यक्त्वाहं-ममते सुधीः । तदोवाच हरिः प्रीतस् तस्मै दैत्याय भागकृत् ॥ २६० ॥

Transliteration

baddhvānīto’tha pātālaṁ vimanāḥ khina-mānasaḥ । nābhyasūyad dhariṁ daityas tyaktvāhaṁ-mamate sudhīḥ । tadovāca hariḥ prītas tasmai daityāya bhāgakṛt ॥ 260 ॥

16.261

Śloka

अश्रोत्रिये दत्तम् अमन्त्रकं हुतं जप्तं तथा व्यग्र-धिया जनेन यत् । तथोर्ज-शुक्ल-प्रतिपद्-दिने न तु त्वाम् अर्चयेत् तत् सुकृतं तवास्तु ॥ २६१ ॥

Transliteration

aśrotriye dattam amantrakaṁ hutaṁ japtaṁ tathā vyagra-dhiyā janena yat । tathorja-śukla-pratipad-dine na tu tvām arcayet tat sukṛtaṁ tavāstu ॥ 261 ॥

16.262

Śloka

ततोऽवश्यं प्रपूज्योऽसौ बलिराजो दिने मुदा । कृष्ण-सान्निध्यतश् चापि पूजनीयः प्रयत्नतः ॥ २६२ ॥

Transliteration

tato’vaśyaṁ prapūjyo’sau balirājo dine mudā । kṛṣṇa-sānnidhyataś cāpi pūjanīyaḥ prayatnataḥ ॥ 262 ॥

16.263

Śloka

गृहस्य मध्ये शालायां विशालायां ततोऽर्चयेत् । भ्रातृ-मातृ-जनैः सार्धं सन्तुष्टा बन्धुभिस् तथा ॥ २६३ ॥

Transliteration

gṛhasya madhye śālāyāṁ viśālāyāṁ tato’rcayet । bhrātṛ-mātṛ-janaiḥ sārdhaṁ santuṣṭā bandhubhis tathā ॥ 263 ॥

16.264

Śloka

कमलैः कुमुदैः पुष्पैः कह्लारै रक्तकोत्पलैः । गन्ध-पुष्पादि-नैवेद्यैर् अक्षतैर् गुड-पूपकैः ॥ २६४ ॥

Transliteration

kamalaiḥ kumudaiḥ puṣpaiḥ kahlārai raktakotpalaiḥ । gandha-puṣpādi-naivedyair akṣatair guḍa-pūpakaiḥ ॥ 264 ॥

16.265

Śloka

बलि-राज नमस् तुभ्यं विरोचन-सुत प्रभो । भविष्येन्द्र सुराराते पूजेयं प्रतिगृह्यताम् ॥ २६५ ॥

Transliteration

bali-rāja namas tubhyaṁ virocana-suta prabho । bhaviṣyendra surārāte pūjeyaṁ pratigṛhyatām ॥ 265 ॥

16.266

Śloka

दीपोत्सवैर् जनित-सर्व-जन-प्रमोदैः कुर्वन्ति ये सुमतयो बलिराज-पूजाम् । दानोपभोग-सुख-वृद्ध-शताकुलानां नूनं प्रयाति सकलं प्रमुदैव वर्षम् ॥ २६६ ॥

Transliteration

dīpotsavair janita-sarva-jana-pramodaiḥ kurvanti ye sumatayo balirāja-pūjām । dānopabhoga-sukha-vṛddha-śatākulānāṁ nūnaṁ prayāti sakalaṁ pramudaiva varṣam ॥ 266 ॥

16.267

Śloka

ऊर्जे शुक्ल-द्वितीयायां मध्याह्ने यमम् अर्चयेत् । स्नानं कृत्वा भानुजायां यम-लोकं न पश्यति ॥ २६७ ॥

Transliteration

ūrje śukla-dvitīyāyāṁ madhyāhne yamam arcayet । snānaṁ kṛtvā bhānujāyāṁ yama-lokaṁ na paśyati ॥ 267 ॥

16.268

Śloka

तस्यां निज-गृहे विप्र न भोक्तव्यं ततो बुधैः । स्नेहेन भगिनी-हस्ताद् भोक्तव्यं पुष्टि-वर्धनम् ॥ २६८ ॥

Transliteration

tasyāṁ nija-gṛhe vipra na bhoktavyaṁ tato budhaiḥ । snehena bhaginī-hastād bhoktavyaṁ puṣṭi-vardhanam ॥ 268 ॥

16.269

Śloka

दानानि च प्रदेयानि भगिनीभ्यो विधानतः । सर्वा भगिन्यः सम्पूज्या अभावे प्रतिपत्नजाः ॥ २६९ ॥

Transliteration

dānāni ca pradeyāni bhaginībhyo vidhānataḥ । sarvā bhaginyaḥ sampūjyā abhāve pratipatnajāḥ ॥ 269 ॥

16.270

Śloka

यस्यां तिथौ यमुनया यम-राज-देवः सम्भोजितस् त्व् अतिशय-स्वसृ-सौहृदेन । तस्यां स्वसुः कर-तलाद् इह यो भुनक्ति प्राप्नोति वित्त-सुभगं धनम् उत्तमं सः ॥ २७० ॥

Transliteration

yasyāṁ tithau yamunayā yama-rāja-devaḥ sambhojitas tv atiśaya-svasṛ-sauhṛdena । tasyāṁ svasuḥ kara-talād iha yo bhunakti prāpnoti vitta-subhagaṁ dhanam uttamaṁ saḥ ॥ 270 ॥

16.271

Śloka

शुक्लाष्टमी कार्त्तिके तु स्मृता गोपाष्टमी बुधैः । तद्-दिने वासुदेवोऽभूद् गोपः पूर्वं तु वत्सपः ॥ २७१ ॥

Transliteration

śuklāṣṭamī kārttike tu smṛtā gopāṣṭamī budhaiḥ । tad-dine vāsudevo’bhūd gopaḥ pūrvaṁ tu vatsapaḥ ॥ 271 ॥

16.272

Śloka

तत्र कुर्याद् गवां पूजां गो-ग्रासं गो-प्रदक्षिणम् । गवानुगमनं कार्यं सर्वान् कामान् अभीप्सता ॥ २७२ ॥

Transliteration

tatra kuryād gavāṁ pūjāṁ go-grāsaṁ go-pradakṣiṇam । gavānugamanaṁ kāryaṁ sarvān kāmān abhīpsatā ॥ 272 ॥

16.273

Śloka

शयन्याम् इव कृत्वास्यां क्षीरीअभोधि-महोत्सवम् । प्रबोध्य कृष्णं सम्पूज्य विधिनारोहयेद् रथम् ॥ २७३ ॥

Transliteration

śayanyām iva kṛtvāsyāṁ kṣīrīabhodhi-mahotsavam । prabodhya kṛṣṇaṁ sampūjya vidhinārohayed ratham ॥ 273 ॥

16.274

Śloka

जन्म-प्रभृति यत् पुण्यं नरेणोपार्जितं भुवि । वृथा भवति तत् सर्वं न कृत्वा बोध-वासरम् ॥ २७४ ॥

Transliteration

janma-prabhṛti yat puṇyaṁ nareṇopārjitaṁ bhuvi । vṛthā bhavati tat sarvaṁ na kṛtvā bodha-vāsaram ॥ 274 ॥

16.275

Śloka

प्रबोधन्याश् च माहात्म्यं पापघ्नं पुण्य-वर्धनम् । मुक्तिदं कृत-बुद्धीनां शृणु त्वं मुनि-सत्तम ॥ २७५ ॥

Transliteration

prabodhanyāś ca māhātmyaṁ pāpaghnaṁ puṇya-vardhanam । muktidaṁ kṛta-buddhīnāṁ śṛṇu tvaṁ muni-sattama ॥ 275 ॥

16.276

Śloka

तावद् गर्जति विप्रेन्द्र गङ्गा भागीरथी क्षितौ । यावन् नायाति पापघ्नी कार्त्तिके हरि-बोधनी ॥ २७६ ॥

Transliteration

tāvad garjati viprendra gaṅgā bhāgīrathī kṣitau । yāvan nāyāti pāpaghnī kārttike hari-bodhanī ॥ 276 ॥

16.277

Śloka

तावद् गर्जति तीर्थानि आसमुद्र-सरांसि च । यावत् प्रबोधनी विष्णोस् तिथिर् नायाति कार्त्तिके ॥ २७७ ॥

Transliteration

tāvad garjati tīrthāni āsamudra-sarāṁsi ca । yāvat prabodhanī viṣṇos tithir nāyāti kārttike ॥ 277 ॥

16.278

Śloka

वाजपेय-सहस्राणि अश्वमेध-शतानि च । एकैनैवोपवासेन प्रबोधन्या लभेन् नरः ॥ २७८ ॥

Transliteration

vājapeya-sahasrāṇi aśvamedha-śatāni ca । ekainaivopavāsena prabodhanyā labhen naraḥ ॥ 278 ॥

16.279

Śloka

दुर्लभं चैव दुष्प्रापं त्रैलोक्ये स-चराचरे । तद् अपि प्रार्थितं विप्र वदति हरि-बोधनी ॥ २७९ ॥

Transliteration

durlabhaṁ caiva duṣprāpaṁ trailokye sa-carācare । tad api prārthitaṁ vipra vadati hari-bodhanī ॥ 279 ॥

16.280

Śloka

ऐश्वर्यं सन्ततिं पूजां राज्यं च सुख-सम्पदः । ददात्य् उपोषिता विप्र हेलया हरि-बोधनी ॥ २८० ॥

Transliteration

aiśvaryaṁ santatiṁ pūjāṁ rājyaṁ ca sukha-sampadaḥ । dadāty upoṣitā vipra helayā hari-bodhanī ॥ 280 ॥

16.281

Śloka

मेरु-मन्दर-तुल्यानि पापान्य् अत्यूर्जितान्य् अपि । एकेनैवोपवासेन दहते हरि-बोधनी ॥ २८१ ॥

Transliteration

meru-mandara-tulyāni pāpāny atyūrjitāny api । ekenaivopavāsena dahate hari-bodhanī ॥ 281 ॥

16.282

Śloka

पृथिव्यां यानि दानानि दत्त्वा यत् फलम् आप्नुते । एकेनैवोपवासेन ददाति हरि-बोधनी ॥ २८२ ॥

Transliteration

pṛthivyāṁ yāni dānāni dattvā yat phalam āpnute । ekenaivopavāsena dadāti hari-bodhanī ॥ 282 ॥

16.283

Śloka

जातः स एव सुकृती कुलं तेनैव पापितम् । कार्त्तिके मुनि-शार्दूल कृता येन प्रबोधनी ॥ २८३ ॥

Transliteration

jātaḥ sa eva sukṛtī kulaṁ tenaiva pāpitam । kārttike muni-śārdūla kṛtā yena prabodhanī ॥ 283 ॥

16.284

Śloka

यानि कानि च तीर्थानि त्रैलोक्ये सम्भवन्ति च । तानि तस्य गृहे सम्यग् यः करोति प्रबोधनीम् ॥ २८४ ॥

Transliteration

yāni kāni ca tīrthāni trailokye sambhavanti ca । tāni tasya gṛhe samyag yaḥ karoti prabodhanīm ॥ 284 ॥

16.285

Śloka

सर्व-कृत्यं परित्यज्य तुष्ट्य्-अर्थं चक्रपाणिनः । उपोष्यैकादशी सम्यक् कार्त्तिके हरि-बोधनी ॥ २८५ ॥

Transliteration

sarva-kṛtyaṁ parityajya tuṣṭy-arthaṁ cakrapāṇinaḥ । upoṣyaikādaśī samyak kārttike hari-bodhanī ॥ 285 ॥

16.286

Śloka

किं तस्य बहुभिः कृत्यैः पर-लोक-प्रदैर् मुने । सकृच् चोपोषिता येन कार्त्तिके हरि-बोधनी ॥ २८६ ॥

Transliteration

kiṁ tasya bahubhiḥ kṛtyaiḥ para-loka-pradair mune । sakṛc copoṣitā yena kārttike hari-bodhanī ॥ 286 ॥

16.287

Śloka

स ज्ञानी स हि योगी च स तपस्वी जितेन्द्रियः । स्वर्ग-मोक्षौ च तस्यास् ताम् उपास्ते हरि-बोधनीम् ॥ २८७ ॥

Transliteration

sa jñānī sa hi yogī ca sa tapasvī jitendriyaḥ । svarga-mokṣau ca tasyās tām upāste hari-bodhanīm ॥ 287 ॥

16.288

Śloka

विष्णोः प्रियतरा ह्य् एषा धर्म-सारस्य दायिनी । इमां सकृद् उपोष्यैव मुक्ति-भागी भवेन् नरः ॥ २८८ ॥

Transliteration

viṣṇoḥ priyatarā hy eṣā dharma-sārasya dāyinī । imāṁ sakṛd upoṣyaiva mukti-bhāgī bhaven naraḥ ॥ 288 ॥

16.289

Śloka

प्रबोधनीम् उपोष्यैव न गर्भे विशते नरः । सर्व-धर्मान् परित्यज्य तस्मात् कुर्वीत नारद ॥ २८९ ॥

Transliteration

prabodhanīm upoṣyaiva na garbhe viśate naraḥ । sarva-dharmān parityajya tasmāt kurvīta nārada ॥ 289 ॥

16.290

Śloka

स्नानं दानं तपो होमः समुद्दिश्य जनार्दनम् । नरैर् यत् क्रियते विप्र प्रबोधिन्यां तद् अक्षयम् ॥ २९० ॥

Transliteration

snānaṁ dānaṁ tapo homaḥ samuddiśya janārdanam । narair yat kriyate vipra prabodhinyāṁ tad akṣayam ॥ 290 ॥

16.291

Śloka

महा-व्रतम् इदं पुत्र महा-पापौघ-नाशनम् । प्रबोध-वासरं विष्णोर् विधिवत् समुपोषयेत् ॥ २९१ ॥

Transliteration

mahā-vratam idaṁ putra mahā-pāpaugha-nāśanam । prabodha-vāsaraṁ viṣṇor vidhivat samupoṣayet ॥ 291 ॥

16.292

Śloka

व्रतेनानेन देवेशं परितोष्य जनार्दनम् । विराजयन् दिशो दीप्त्या प्रयाति भुवनं हरेः ॥ २९२ ॥

Transliteration

vratenānena deveśaṁ paritoṣya janārdanam । virājayan diśo dīptyā prayāti bhuvanaṁ hareḥ ॥ 292 ॥

16.293

Śloka

दुग्धाब्धि-भोगि-शयने भगवान् अनन्तो यस्मिन् दिने स्वपिति चाथ विबुध्यते च । तस्मिन्न् अनन्य-मनसाम् उपवास-भाजां कामं ददात्य् अभिमतं गरुदाङ्क-शायी ॥ २९३ ॥

Transliteration

dugdhābdhi-bhogi-śayane bhagavān ananto yasmin dine svapiti cātha vibudhyate ca । tasminn ananya-manasām upavāsa-bhājāṁ kāmaṁ dadāty abhimataṁ garudāṅka-śāyī ॥ 293 ॥

16.294

Śloka

उपवासासमर्थानां सदैव पृथु-लोचने । एका सा द्वादशी पुण्या समुपोष्या प्रबोधिनी ॥ २९४ ॥

Transliteration

upavāsāsamarthānāṁ sadaiva pṛthu-locane । ekā sā dvādaśī puṇyā samupoṣyā prabodhinī ॥ 294 ॥

16.295

Śloka

तस्याम् आराध्य विश्वेशं जगताम् ईश्वरेश्वरम् । प्राप्नोति सकलं तद् धि द्वादश-द्वादशी-व्रतम् ॥ २९५ ॥

Transliteration

tasyām ārādhya viśveśaṁ jagatām īśvareśvaram । prāpnoti sakalaṁ tad dhi dvādaśa-dvādaśī-vratam ॥ 295 ॥

16.296

Śloka

उत्तराङ्गारक-युता यदि सा भवति प्रिये । तदा सा महती पुण्या कोटि-कोटि-[गो.ता.उ.रूपा ॥ २९६ ॥

Transliteration

uttarāṅgāraka-yutā yadi sā bhavati priye । tadā sā mahatī puṇyā koṭi-koṭi-[go.tā.u.rūpā ॥ 296 ॥

16.297

Śloka

शयने बोधने चैव कोटि-दानेन सुन्दरि । उपोष्यैव विधानेन यान्ति मल्लयतां नराः ॥ २९७ ॥

Transliteration

śayane bodhane caiva koṭi-dānena sundari । upoṣyaiva vidhānena yānti mallayatāṁ narāḥ ॥ 297 ॥

16.298

Śloka

एकादशी सोम-युता कार्त्तिके मासि भाविनि । उत्तराभाद्र-संयोगे अनन्ता सा प्रकीर्तिता ॥ २९८ ॥

Transliteration

ekādaśī soma-yutā kārttike māsi bhāvini । uttarābhādra-saṁyoge anantā sā prakīrtitā ॥ 298 ॥

16.299

Śloka

तस्यां यत् क्रियते भद्रे सर्वम् आनन्त्यम् अश्नुते । अनन्त-पुण्य-फलदा तेनानन्ता स्मृता फले ॥ २९९ ॥

Transliteration

tasyāṁ yat kriyate bhadre sarvam ānantyam aśnute । ananta-puṇya-phaladā tenānantā smṛtā phale ॥ 299 ॥

16.300

Śloka

अन्यच् च ते प्रवक्ष्यामि गुह्याद् गुह्यतरं मुने । कार्त्तिकेऽमल-पक्षे तु साक्षाद् एकादशी स्मृता । भक्ति-प्रदा हरेः सा तु नाम्ना ख्याता प्रबोधिनी ॥ ३०० ॥

Transliteration

anyac ca te pravakṣyāmi guhyād guhyataraṁ mune । kārttike’mala-pakṣe tu sākṣād ekādaśī smṛtā । bhakti-pradā hareḥ sā tu nāmnā khyātā prabodhinī ॥ 300 ॥