Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

Vilāsa 13

viṣṇu-vratotsavaḥ

13.301

Śloka

शालग्रामशिलामालां दत्त्वा मूर्धनि प्रत्यहम् । किं धारयसि भूपाल कण्ठे नित्यं सुभक्तितः ॥ ३०१ ॥

Transliteration

śālagrāmaśilāmālāṁ dattvā mūrdhani pratyaham । kiṁ dhārayasi bhūpāla kaṇṭhe nityaṁ subhaktitaḥ ॥ 301 ॥

13.302

Śloka

धूपशेषन्तु कृष्णस्य भक्त्या भजसि भूमिप । कृत्वा चारात्रिकं विष्णोर्भक्त्या वन्दयसे नृप ॥ ३०२ ॥

Transliteration

dhūpaśeṣantu kṛṣṇasya bhaktyā bhajasi bhūmipa । kṛtvā cārātrikaṁ viṣṇorbhaktyā vandayase nṛpa ॥ 302 ॥

13.303

Śloka

शङ्खोदकं हरेमूर्ध्नि भ्रामथित्वा सुभक्तितः । विभर्षि शिरसा नित्यं शेषं यच्छसि वैष्णवान् ॥ ३०३ ॥

Transliteration

śaṅkhodakaṁ haremūrdhni bhrāmathitvā subhaktitaḥ । vibharṣi śirasā nityaṁ śeṣaṁ yacchasi vaiṣṇavān ॥ 303 ॥

13.304

Śloka

नैवेद्यं देवदेवस्य सर्वोपस्करसंयुतम् । विष्वक्सेनाय दत्त्वा त्वं भुञ्जसे वैष्णवैः सह ॥ ३०४ ॥

Transliteration

naivedyaṁ devadevasya sarvopaskarasaṁyutam । viṣvaksenāya dattvā tvaṁ bhuñjase vaiṣṇavaiḥ saha ॥ 304 ॥

13.305

Śloka

नित्यं नामसहस्रेन भक्त्या स्तौषि जनार्दनम् । दीपार्ध्यदानं देवस्य कुरुषे गीतनर्तनम् ॥ ३०५ ॥

Transliteration

nityaṁ nāmasahasrena bhaktyā stauṣi janārdanam । dīpārdhyadānaṁ devasya kuruṣe gītanartanam ॥ 305 ॥

13.306

Śloka

दूर्वाङ्कुरैः पूजयित्वा पूजान्ते मधुसूदनम् । अक्षतैर् नृपषार्दूल किमर्चयसि केशवम् ॥ ३०६ ॥

Transliteration

dūrvāṅkuraiḥ pūjayitvā pūjānte madhusūdanam । akṣatair nṛpaṣārdūla kimarcayasi keśavam ॥ 306 ॥

13.307

Śloka

पक्षे पक्षे नृपश्रेष्ठ विधिवद्द्वादशीव्रतम् । दशमीवेधरहितं कुरुषे जागरान्वितम् ॥ ३०७ ॥

Transliteration

pakṣe pakṣe nṛpaśreṣṭha vidhivaddvādaśīvratam । daśamīvedharahitaṁ kuruṣe jāgarānvitam ॥ 307 ॥

13.308

Śloka

तुलसीपत्रनिकरैर् नित्यं पूजयसे हरिम् । पुण्ड्रं विभर्षि देहे त्वं गोपीचन्दनसम्भवम् ॥ ३०८ ॥

Transliteration

tulasīpatranikarair nityaṁ pūjayase harim । puṇḍraṁ vibharṣi dehe tvaṁ gopīcandanasambhavam ॥ 308 ॥

13.309

Śloka

विभर्षि कण्ठे त्वं नित्यं धात्रीफलसमुद्भवाम् । मालां मखायुतसमां तुलसीपत्रसम्भवाम् ॥ ३०९ ॥

Transliteration

vibharṣi kaṇṭhe tvaṁ nityaṁ dhātrīphalasamudbhavām । mālāṁ makhāyutasamāṁ tulasīpatrasambhavām ॥ 309 ॥

13.310

Śloka

शालग्रामशिलायुक्तं द्वारकायाः समुद्भवम् । नित्यं पूजयसे भूप भूक्तिमुक्तिफलप्रदम् ॥ ३१० ॥

Transliteration

śālagrāmaśilāyuktaṁ dvārakāyāḥ samudbhavam । nityaṁ pūjayase bhūpa bhūktimuktiphalapradam ॥ 310 ॥

13.311

Śloka

पुराणं त्वं भागवतं पठसे पुरतो हरेः । चरितं दैत्यराजस्य प्रह्लादस्य च भूपते ॥ ३११ ॥

Transliteration

purāṇaṁ tvaṁ bhāgavataṁ paṭhase purato hareḥ । caritaṁ daityarājasya prahlādasya ca bhūpate ॥ 311 ॥

13.312

Śloka

वासरं वासुदेवस्य सवेधं कुर्वतो नरान् । निवारयसि भूपाल शास्त्रदृष्ट्या प्रयत्नतः ॥ ३१२ ॥

Transliteration

vāsaraṁ vāsudevasya savedhaṁ kurvato narān । nivārayasi bhūpāla śāstradṛṣṭyā prayatnataḥ ॥ 312 ॥

13.313

Śloka

सवेधं वासरं विष्णोर्यस्मिन् राष्ट्रे प्रवर्तते । लिप्यते तेन पापेन राजा भवति नारकी ॥ ३१३ ॥

Transliteration

savedhaṁ vāsaraṁ viṣṇoryasmin rāṣṭre pravartate । lipyate tena pāpena rājā bhavati nārakī ॥ 313 ॥

13.314

Śloka

वेधं चतुर्विधं त्यक्त्वा समुपोष्य हरेर्दिनम् । कुलकोटिं समुद्धृत्य नरकाद्व्रजते दिवम् ॥ ३१४ ॥

Transliteration

vedhaṁ caturvidhaṁ tyaktvā samupoṣya harerdinam । kulakoṭiṁ samuddhṛtya narakādvrajate divam ॥ 314 ॥

13.315

Śloka

त्वया यदुक्तं विप्रेन्द्र तत् सर्वं प्रकरोम्यहम् । पश्याम्यहं विष्णुमयं जगदेतच्चराचरम् ॥ ३१५ ॥

Transliteration

tvayā yaduktaṁ viprendra tat sarvaṁ prakaromyaham । paśyāmyahaṁ viṣṇumayaṁ jagadetaccarācaram ॥ 315 ॥

13.316

Śloka

विष्णुरूपी त्वमायातो मद्गृहं मुनिसत्तम । व्रतं कथय मे विप्र वैष्णवं सर्वकामदम् ॥ ३१६ ॥

Transliteration

viṣṇurūpī tvamāyāto madgṛhaṁ munisattama । vrataṁ kathaya me vipra vaiṣṇavaṁ sarvakāmadam ॥ 316 ॥

13.317

Śloka

यत् कृत्वा न पुनः कृत्यं भवते ऋषिसत्तम । पुनर्गतिर्यथा विप्र विष्णुलोकाद्भवेन्न हि ॥ ३१७ ॥

Transliteration

yat kṛtvā na punaḥ kṛtyaṁ bhavate ṛṣisattama । punargatiryathā vipra viṣṇulokādbhavenna hi ॥ 317 ॥

13.318

Śloka

शृणु भूपाल वक्ष्यामि व्रतं यद्वैष्णवं महत् । द्वादशीसम्भवं पुण्यं मयाख्यातं न कस्यचित् ॥ ३१८ ॥

Transliteration

śṛṇu bhūpāla vakṣyāmi vrataṁ yadvaiṣṇavaṁ mahat । dvādaśīsambhavaṁ puṇyaṁ mayākhyātaṁ na kasyacit ॥ 318 ॥

13.319

Śloka

वैष्णवोऽसि महाराज भक्त्या भागवतां नृणाम् । वैष्णवं यन्महागुह्यं तद्व्रतं त्वं निशामय ॥ ३१९ ॥

Transliteration

vaiṣṇavo'si mahārāja bhaktyā bhāgavatāṁ nṛṇām । vaiṣṇavaṁ yanmahāguhyaṁ tadvrataṁ tvaṁ niśāmaya ॥ 319 ॥

13.320

Śloka

उन्मीलनी नाम पुरा मम भक्त्या तु विष्णुना । कथिता सुप्रसन्नेन तान्ते भूप वदाम्यहम् ॥ ३२० ॥

Transliteration

unmīlanī nāma purā mama bhaktyā tu viṣṇunā । kathitā suprasannena tānte bhūpa vadāmyaham ॥ 320 ॥

13.321

Śloka

सम्पूर्णैकादशी प्रातर्द्वितीयेऽह्नि प्रवर्द्धते । उन्मीलनीति सा प्रोक्ता पापपङ्कौघनाशिनी ॥ ३२१ ॥

Transliteration

sampūrṇaikādaśī prātardvitīye'hni pravarddhate । unmīlanīti sā proktā pāpapaṅkaughanāśinī ॥ 321 ॥

13.322

Śloka

त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च । कोट्यंशेनैव तुल्यानि मखा वेदास्तपांसि च ॥ ३२२ ॥

Transliteration

trailokye yāni tīrthāni puṇyānyāyatanāni ca । koṭyaṁśenaiva tulyāni makhā vedāstapāṁsi ca ॥ 322 ॥

13.323

Śloka

उन्मीलनीसमं किञ्चिन्न दृष्टं न श्रुतं मया । प्रयागो न कुरुक्षेत्रं न काशी न च पुष्करम् ॥ ३२३ ॥

Transliteration

unmīlanīsamaṁ kiñcinna dṛṣṭaṁ na śrutaṁ mayā । prayāgo na kurukṣetraṁ na kāśī na ca puṣkaram ॥ 323 ॥

13.324

Śloka

न रेवा ब्रह्मतनया कालिन्दी मथुरा न हि । पिण्डारकं प्रभासं च न क्षेत्रं हाटकेश्वरम् ॥ ३२४ ॥

Transliteration

na revā brahmatanayā kālindī mathurā na hi । piṇḍārakaṁ prabhāsaṁ ca na kṣetraṁ hāṭakeśvaram ॥ 324 ॥

13.325

Śloka

शैलो हिमाचलो नैव न मेरुर्गन्धमादनः । शैलो नैवेह मलयो न विन्ध्यो नैव नैषधः ॥ ३२५ ॥

Transliteration

śailo himācalo naiva na merurgandhamādanaḥ । śailo naiveha malayo na vindhyo naiva naiṣadhaḥ ॥ 325 ॥

13.326

Śloka

गोदावरी च कावेरी चन्द्रभागा न देविका । न तापी न पयोष्णी च न शिप्रार्नैव चन्दना ॥ ३२६ ॥

Transliteration

godāvarī ca kāverī candrabhāgā na devikā । na tāpī na payoṣṇī ca na śiprārnaiva candanā ॥ 326 ॥

13.327

Śloka

चर्मण्वती च सरयूश्चन्द्रभागा न गण्डकी । गोमती च विपाशा च शोणश्चैव महानदः ॥ ३२७ ॥

Transliteration

carmaṇvatī ca sarayūścandrabhāgā na gaṇḍakī । gomatī ca vipāśā ca śoṇaścaiva mahānadaḥ ॥ 327 ॥

13.328

Śloka

किमत्र बहुनोक्तेन भूयो भूयो नराधिप । नोन्मीलनीसमं किञ्चिन्न देवः केशवात् परः ॥ ३२८ ॥

Transliteration

kimatra bahunoktena bhūyo bhūyo narādhipa । nonmīlanīsamaṁ kiñcinna devaḥ keśavāt paraḥ ॥ 328 ॥

13.329

Śloka

उन्मीलनीमनुप्राप्य यैः कृतं केशवार्चनम् । पापचक्रसमूहस्य दत्तस्तेन दवानलः ॥ ३२९ ॥

Transliteration

unmīlanīmanuprāpya yaiḥ kṛtaṁ keśavārcanam । pāpacakrasamūhasya dattastena davānalaḥ ॥ 329 ॥

13.330

Śloka

यस्मिन् मासे महीपाल तिथिरुन्मीलनी भवेत् । तन्मासनास्ना गोविन्दः पूजनीयो यथाविधि ॥ ३३० ॥

Transliteration

yasmin māse mahīpāla tithirunmīlanī bhavet । tanmāsanāsnā govindaḥ pūjanīyo yathāvidhi ॥ 330 ॥

13.331

Śloka

जातरूपमयः कार्यो मासनाम्नाम्ना तु माधवः । स्वशक्त्या विश्वरूपं च श्रद्धाभक्तिसमन्वितैः ॥ ३३१ ॥

Transliteration

jātarūpamayaḥ kāryo māsanāmnāmnā tu mādhavaḥ । svaśaktyā viśvarūpaṁ ca śraddhābhaktisamanvitaiḥ ॥ 331 ॥

13.332

Śloka

पवित्रोदकसंयुक्तं पञ्चरत्न-समन्वितम् । गन्धपुष्पाक्षतैर् युक्तं कुम्भं स्रग्दामभूषितम् ॥ ३३२ ॥

Transliteration

pavitrodakasaṁyuktaṁ pañcaratna-samanvitam ।gandhapuṣpākṣatair yuktaṁ kumbhaṁ sragdāmabhūṣitam ॥ 332 ॥

13.333

Śloka

पात्रमौडम्बरं कार्यं गोधूमश्चापि पूरितम् । तण्डुलैर् वा महीपाल स्थापनीयं घटोपपि ॥ ३३३ ॥

Transliteration

pātramauḍambaraṁ kāryaṁ godhūmaścāpi pūritam । taṇḍulair vā mahīpāla sthāpanīyaṁ ghaṭopapi ॥ 333 ॥

13.334

Śloka

स्नापयित्वा तु गोविन्दं कुङ्कुमागुरुचन्दनैः । कृत्वा विलेपनं विष्णुः स्थापनीयो घटोपरि ॥ ३३४ ॥

Transliteration

snāpayitvā tu govindaṁ kuṅkumāgurucandanaiḥ । kṛtvā vilepanaṁ viṣṇuḥ sthāpanīyo ghaṭopari ॥ 334 ॥

13.335

Śloka

प्रदद्याद्वस्त्रयुग्मन्तु सोपवीतं च सोत्तरम् । उपानहौ च राजर्षे आतपत्रं शिरोपरि ॥ ३३५ ॥

Transliteration

pradadyādvastrayugmantu sopavītaṁ ca sottaram । upānahau ca rājarṣe ātapatraṁ śiropari ॥ 335 ॥

13.336

Śloka

भाजनं जलपात्रं च सप्तधान्यं तिलैः सह । रूप्यञ्चैव च कार्पासं पायसं मुद्रिकां हरेः ॥ ३३६ ॥

Transliteration

bhājanaṁ jalapātraṁ ca saptadhānyaṁ tilaiḥ saha । rūpyañcaiva ca kārpāsaṁ pāyasaṁ mudrikāṁ hareḥ ॥ 336 ॥

13.337

Śloka

धेनुं वा निष्क्रयं वापि दद्यान्माधवतुष्टये । शय्यां सोपस्करां दत्त्वा माधवाय तु भत्ति तः ॥ ३३७ ॥

Transliteration

dhenuṁ vā niṣkrayaṁ vāpi dadyānmādhavatuṣṭaye । śayyāṁ sopaskarāṁ dattvā mādhavāya tu bhatti taḥ ॥ 337 ॥

13.338

Śloka

धूपदीपन्तु नैवेद्यां फलं पत्रं निवेदयेत् । पूजनीयो महाभक्त्या मन्त्रैर् एभिस्तु वैष्णवैः । तुलसीपत्रसंयुक्तैः पुष्पैः कालोद्भवैर् हरिः ॥ ३३८ ॥

Transliteration

dhūpadīpantu naivedyāṁ phalaṁ patraṁ nivedayet । pūjanīyo mahābhaktyā mantrair ebhistu vaiṣṇavaiḥ । tulasīpatrasaṁyuktaiḥ puṣpaiḥ kālodbhavair hariḥ ॥ 338 ॥

13.339

Śloka

मासनाम्ना तु पादौ हि जानुनी विश्वरूपिणे । गुह्यन्तु कामपतये कटिं च पीतवाससे ॥ ३३९ ॥

Transliteration

māsanāmnā tu pādau hi jānunī viśvarūpiṇe । guhyantu kāmapataye kaṭiṁ ca pītavāsase ॥ 339 ॥

13.340

Śloka

ब्रह्ममूर्तिभृते नाभिमुदरं विश्वयोनये । हृदयं ज्ञानगम्याय कण्ठं वैकुण्ठमूर्तये ॥ ३४० ॥

Transliteration

brahmamūrtibhṛte nābhimudaraṁ viśvayonaye । hṛdayaṁ jñānagamyāya kaṇṭhaṁ vaikuṇṭhamūrtaye ॥ 340 ॥

13.341

Śloka

उरुगाय ललाटन्तु बाहू क्षत्रान्तकारिणे । उत्तमाङ्गं सुरेशाय सर्वाङ्गं सर्वमूर्तये ॥ ३४१ ॥

Transliteration

urugāya lalāṭantu bāhū kṣatrāntakāriṇe । uttamāṅgaṁ sureśāya sarvāṅgaṁ sarvamūrtaye ॥ 341 ॥

13.342

Śloka

स्वनाम्ना चायुधादीनि पूजनीयानि भत्ति तः । अर्घ्यदानं प्रकर्तव्यं नारिकेलादिभिः फलैः ॥ ३४२ ॥

Transliteration

svanāmnā cāyudhādīni pūjanīyāni bhatti taḥ । arghyadānaṁ prakartavyaṁ nārikelādibhiḥ phalaiḥ ॥ 342 ॥

13.343

Śloka

शङ्खोपरि फलं कृत्वा गन्धपुष्पफलान्वितम् । सूत्रेण वेष्ठनं कृत्वा दद्यादर्ध्यां विधानतः ॥ ३४३ ॥

Transliteration

śaṅkhopari phalaṁ kṛtvā gandhapuṣpaphalānvitam । sūtreṇa veṣṭhanaṁ kṛtvā dadyādardhyāṁ vidhānataḥ ॥ 343 ॥

13.344

Śloka

देवदेव महादेव महापुरुष पूर्वज । सुब्रह्मण्य नमस्तेऽस्तु पुण्यकीर्तिविवर्द्धन ॥ ३४४ ॥

Transliteration

devadeva mahādeva mahāpuruṣa pūrvaja । subrahmaṇya namaste'stu puṇyakīrtivivarddhana ॥ 344 ॥

13.345

Śloka

शोकमोहमहापापान्मामुद्धर भवार्णवात् । सुकृतं न कृतं किञ्चिज्जन्मान्तरशतैर् अपि । तथापि मां जगन्नाथ समुद्धर भवार्णवात् ॥ ३४५ ॥

Transliteration

śokamohamahāpāpānmāmuddhara bhavārṇavāt । sukṛtaṁ na kṛtaṁ kiñcijjanmāntaraśatair api । tathāpi māṁ jagannātha samuddhara bhavārṇavāt ॥ 345 ॥

13.346

Śloka

व्रतेनानेन देवेश ये चान्ये मन पूर्वजाः । वियोनिं च गताश्चान्ये पापान्मृत्युवशं गताः । ये भविष्यन्ति येऽतीताः प्रेतलोकात् समुद्धर ॥ ३४६ ॥

Transliteration

vratenānena deveśa ye cānye mana pūrvajāḥ । viyoniṁ ca gatāścānye pāpānmṛtyuvaśaṁ gatāḥ । ye bhaviṣyanti ye'tītāḥ pretalokāt samuddhara ॥ 346 ॥

13.347

Śloka

आर्तस्य मम दीनस्य भक्तिरव्यभिचारिणी । दत्तमर्ध्यं मया तुभ्यं भक्त्या गृह्ण गदाधर ॥ ३४७ ॥

Transliteration

ārtasya mama dīnasya bhaktiravyabhicāriṇī । dattamardhyaṁ mayā tubhyaṁ bhaktyā gṛhṇa gadādhara ॥ 347 ॥

13.348

Śloka

दत्त्वार्ध्यं धूपदीपाध्यैर् नैर् वेद्यैर् हविरुद्भवैः । स्तोत्रैर् नीराजनैर् गीतैर् नृत्यैः सन्तोषयेद्धरिम् ॥ ३४८ ॥

Transliteration

dattvārdhyaṁ dhūpadīpādhyair nair vedyair havirudbhavaiḥ । stotrair nīrājanair gītair nṛtyaiḥ santoṣayeddharim ॥ 348 ॥

13.349

Śloka

वस्त्रदानैश् च गोदानैर् भोजनैस्तोषयेद्गुरुम् । अकुर्वन् वित्तशाठ्यन्तु व्रतं कुर्यात्तु वैष्णवः ॥ ३४९ ॥

Transliteration

vastradānaiś ca godānair bhojanaistoṣayedgurum । akurvan vittaśāṭhyantu vrataṁ kuryāttu vaiṣṇavaḥ ॥ 349 ॥

13.350

Śloka

तुष्ट्यर्थं पद्मनाभस्य कार्यं जागरणन्तथा । निशान्ते व्रतकृत्यन्तु गुरवे तन्निवेदयेत् ॥ ३५० ॥

Transliteration

tuṣṭyarthaṁ padmanābhasya kāryaṁ jāgaraṇantathā । niśānte vratakṛtyantu gurave tannivedayet ॥ 350 ॥

13.351

Śloka

गुरौ निवेदिते भूप परिपूर्णं भवेद्द्व्रतम् । कृत्वा दिनकृतं कर्म भोजनं ब्राह्मणैः सह । कर्तव्यं नृपशार्दूल दिनं नेयं कथानकैः ॥ ३५१ ॥

Transliteration

gurau nivedite bhūpa paripūrṇaṁ bhaveddvratam । kṛtvā dinakṛtaṁ karma bhojanaṁ brāhmaṇaiḥ saha । kartavyaṁ nṛpaśārdūla dinaṁ neyaṁ kathānakaiḥ ॥ 351 ॥

13.352

Śloka

अनेन विधिना यस्तु कुर्यादुन्मीलनीव्रतम् । कल्पकोऽटिसहस्राणि वसते विष्णु सन्निधौ ॥ ३५२ ॥

Transliteration

anena vidhinā yastu kuryādunmīlanīvratam । kalpako'ṭisahasrāṇi vasate viṣṇu sannidhau ॥ 352 ॥

13.353

Śloka

उन्मीलनीव्रतं कुर्यादेवं यः स धनी भवेत् । दीर्घायुः पुत्रवान् विद्वान् न कर्ता निरयं व्रजेत् ॥ ३५३ ॥

Transliteration

unmīlanīvrataṁ kuryādevaṁ yaḥ sa dhanī bhavet । dīrghāyuḥ putravān vidvān na kartā nirayaṁ vrajet ॥ 353 ॥

13.354

Śloka

तावत् पापानि देहेषु दुःसहा यमयातनाः । प्राणिनां कुरुते तावद्यावन्नोन्मीलनीव्रतम् ॥ ३५४ ॥

Transliteration

tāvat pāpāni deheṣu duḥsahā yamayātanāḥ । prāṇināṁ kurute tāvadyāvannonmīlanīvratam ॥ 354 ॥

13.355

Śloka

यदत्र दीयते दानं हूयते वात्र यद्धविः । सर्वं तदक्षयं प्राहुरुन्मीलन्यां महर्षयः ॥ ३५५ ॥

Transliteration

yadatra dīyate dānaṁ hūyate vātra yaddhaviḥ । sarvaṁ tadakṣayaṁ prāhurunmīlanyāṁ maharṣayaḥ ॥ 355 ॥

13.356

Śloka

सम्पूर्णैकादशी यन्त्र द्वादशी च यदा भवेत् । त्रयोदश्यां मुहूर्तार्धं वञ्जुली सा हरिप्रिया ॥ ३५६ ॥

Transliteration

sampūrṇaikādaśī yantra dvādaśī ca yadā bhavet । trayodaśyāṁ muhūrtārdhaṁ vañjulī sā haripriyā ॥ 356 ॥

13.357

Śloka

शुक्लपक्षे तथा कृष्णे यदा भवति वञ्जुली । एकादशीदिने भुक्त्वा द्वादश्यां कारयेद्व्रतम् ॥ ३५७ ॥

Transliteration

śuklapakṣe tathā kṛṣṇe yadā bhavati vañjulī । ekādaśīdine bhuktvā dvādaśyāṁ kārayedvratam ॥ 357 ॥

13.358

Śloka

पारणं द्वादशीमध्ये त्रयोदश्यां न कारयेत् । एव कृते महीपाल यज्ञायुतफलं लभेत् ॥ ३५८ ॥

Transliteration

pāraṇaṁ dvādaśīmadhye trayodaśyāṁ na kārayet । eva kṛte mahīpāla yajñāyutaphalaṁ labhet ॥ 358 ॥

13.359

Śloka

द्वादश्यान्तु निराहारः पारणा चापरेऽहनि । धर्मार्थकाममोक्षार्थं करिष्ये वञ्जुलीव्रतम् ॥ ३५९ ॥

Transliteration

dvādaśyāntu nirāhāraḥ pāraṇā cāpare'hani । dharmārthakāmamokṣārthaṁ kariṣye vañjulīvratam ॥ 359 ॥

13.360

Śloka

स्नात्वा नद्यां नदे वाथ तडागे वा हृदेऽपि वा । कृत्वा स्नानं गृहे वापि नित्यकर्म च कारयेत् ॥ ३६० ॥

Transliteration

snātvā nadyāṁ nade vātha taḍāge vā hṛde'pi vā । kṛtvā snānaṁ gṛhe vāpi nityakarma ca kārayet ॥ 360 ॥

13.361

Śloka

माषकेण सुवर्णेन कृत्वा नारायणीं तनूम् । रत्नगर्भघटे कृत्वा ताम्रपात्रोपरि स्थितम् ॥ ३६१ ॥

Transliteration

māṣakeṇa suvarṇena kṛtvā nārāyaṇīṁ tanūm । ratnagarbhaghaṭe kṛtvā tāmrapātropari sthitam ॥ 361 ॥

13.362

Śloka

आतपत्रन्तु मायूरं वैणवं वा स्वशक्तितः । उपानहौ प्रकर्तव्यं कांस्यपात्रं कृतान्वितम् ॥ ३६२ ॥

Transliteration

ātapatrantu māyūraṁ vaiṇavaṁ vā svaśaktitaḥ । upānahau prakartavyaṁ kāṁsyapātraṁ kṛtānvitam ॥ 362 ॥

13.363

Śloka

गोधूमैः पूरयेत् पात्रं स्नाप्य देवं न्यसेत्ततः । वस्त्रयुग्मेन संछाद्य कार्यञ्चैव विलेपनम् ॥ ३६३ ॥

Transliteration

godhūmaiḥ pūrayet pātraṁ snāpya devaṁ nyasettataḥ । vastrayugmena saṁchādya kāryañcaiva vilepanam ॥ 363 ॥

13.364

Śloka

अर्चयेदुदकुम्भस्थं पुष्पमाल्याभिवेष्टितम् । ततः पूजा प्रकर्तव्या सुगन्धैः कुसुमैः शुभैः ॥ ३६४ ॥

Transliteration

arcayedudakumbhasthaṁ puṣpamālyābhiveṣṭitam । tataḥ pūjā prakartavyā sugandhaiḥ kusumaiḥ śubhaiḥ ॥ 364 ॥

13.365

Śloka

नारायणाय पादौ तु जानुनी केशवाय च । उरुभ्यां माधवायेति गुह्यं कामाधिपाय च ॥ ३६५ ॥

Transliteration

nārāyaṇāya pādau tu jānunī keśavāya ca । urubhyāṁ mādhavāyeti guhyaṁ kāmādhipāya ca ॥ 365 ॥

13.366

Śloka

गोविन्दाय कटिं पूज्य नाभिं माधवमूर्तये । उदरं विश्वरूपाय वक्षः कौस्तुभधारिणे ॥ ३६६ ॥

Transliteration

govindāya kaṭiṁ pūjya nābhiṁ mādhavamūrtaye । udaraṁ viśvarūpāya vakṣaḥ kaustubhadhāriṇe ॥ 366 ॥

13.367

Śloka

वैकुण्ठाय नमः कण्ठं चक्षुषी ज्योतिरूपिणे । सहस्रशीर्षाय शिरः सर्वाङ्गं विश्वरूपिणे ॥ ३६७ ॥

Transliteration

vaikuṇṭhāya namaḥ kaṇṭhaṁ cakṣuṣī jyotirūpiṇe । sahasraśīrṣāya śiraḥ sarvāṅgaṁ viśvarūpiṇe ॥ 367 ॥

13.368

Śloka

आयुधानि स्वनाम्नैव एवं देवार्चने विधिः । शुभेन नारिकेलेन दद्यादर्ध्यं विधानतः ॥ ३६८ ॥

Transliteration

āyudhāni svanāmnaiva evaṁ devārcane vidhiḥ । śubhena nārikelena dadyādardhyaṁ vidhānataḥ ॥ 368 ॥

13.369

Śloka

शङ्खे कृत्वा तु पानीयं साक्षतं कुसुमान्वितम् । नारायण जगन्नाथ पीताम्बर जनार्दन । मामुद्धर महाविष्णो नरकाब्धेः सनातन ॥ ३६९ ॥

Transliteration

śaṅkhe kṛtvā tu pānīyaṁ sākṣataṁ kusumānvitam । nārāyaṇa jagannātha pītāmbara janārdana । māmuddhara mahāviṣṇo narakābdheḥ sanātana ॥ 369 ॥

13.370

Śloka

सप्तकल्पगतं पापं यत् कृतं मम पूर्वजैः । अनेनार्ध्यप्रदानेन सकलं तत् प्रणश्यतु । मुक्तिं प्रयान्तु पितरो मया सह जगत्पते ॥ ३७० ॥

Transliteration

saptakalpagataṁ pāpaṁ yat kṛtaṁ mama pūrvajaiḥ ।anenārdhyapradānena sakalaṁ tat praṇaśyatu । muktiṁ prayāntu pitaro mayā saha jagatpate ॥ 370 ॥

13.371

Śloka

मया तवार्घ्यदानेन ये चान्ये पितरो गताः । वसन्तु त्वत्समीपेऽद्य देवदेव जनार्दन ॥ ३७१ ॥

Transliteration

mayā tavārghyadānena ye cānye pitaro gatāḥ । vasantu tvatsamīpe'dya devadeva janārdana ॥ 371 ॥

13.372

Śloka

व्रतं सम्पूर्णतां यातु वञ्जुलीसम्भवं मम । दशमीसंयुतं देव यत् कृतं द्वादशीद्वतम् । अज्ञानादथवा ज्ञानान् परिपूर्णं तदस्तु मे ॥ ३७२ ॥

Transliteration

vrataṁ sampūrṇatāṁ yātu vañjulīsambhavaṁ mama । daśamīsaṁyutaṁ deva yat kṛtaṁ dvādaśīdvatam । ajñānādathavā jñānān paripūrṇaṁ tadastu me ॥ 372 ॥

13.373

Śloka

अनेन विधिना सम्यग्दत्त्वार्ध्यं मधुसूदने । वसेत् कल्पसहस्त्रन्तु विष्णोर्लोके महेश्वरि ॥ ३७३ ॥

Transliteration

anena vidhinā samyagdattvārdhyaṁ madhusūdane । vaset kalpasahastrantu viṣṇorloke maheśvari ॥ 373 ॥

13.374

Śloka

अग्निष्टोमसहस्रेभ्यः अश्वमेधो विशिष्यते । अश्वमेधसहस्रेभ्यो वाजपेयो विशिष्यते ॥ ३७४ ॥

Transliteration

agniṣṭomasahasrebhyaḥ aśvamedho viśiṣyate । aśvamedhasahasrebhyo vājapeyo viśiṣyate ॥ 374 ॥

13.375

Śloka

वाजपेयसहस्रेभ्यः पुण्डरीको विशिष्यते । पुण्डरीकसहस्रेभ्यः सौत्रामणिर्विशिष्यते ॥ ३७५ ॥

Transliteration

vājapeyasahasrebhyaḥ puṇḍarīko viśiṣyate । puṇḍarīkasahasrebhyaḥ sautrāmaṇirviśiṣyate ॥ 375 ॥

13.376

Śloka

सौत्रामणिसहस्रेभ्यो राजसूयो विशिष्यते । राजसूयसहस्रेभ्यो वञ्जुली चाधिका नृप ॥ ३७६ ॥

Transliteration

sautrāmaṇisahasrebhyo rājasūyo viśiṣyate । rājasūyasahasrebhyo vañjulī cādhikā nṛpa ॥ 376 ॥

13.377

Śloka

वञ्जुलीति कृतोच्चारैः कलिकाले तु मानवैः । जन्मयुतसहस्रेतु कृतः पापस्य संक्षयः ॥ ३७७ ॥

Transliteration

vañjulīti kṛtoccāraiḥ kalikāle tu mānavaiḥ । janmayutasahasretu kṛtaḥ pāpasya saṁkṣayaḥ ॥ 377 ॥

13.378

Śloka

दत्त्वा पूजार्घ्यदानन्तु धूपनैवेद्यदीपकम् । कृत्वा नीराजनं विष्णोर्गुरुं सम्पूजयेत्ततः ॥ ३७८ ॥

Transliteration

dattvā pūjārghyadānantu dhūpanaivedyadīpakam । kṛtvā nīrājanaṁ viṣṇorguruṁ sampūjayettataḥ ॥ 378 ॥

13.379

Śloka

दद्याद्वस्त्राणि गां भूमिं धान्यं चैव सदक्षिणम् । कुर्या द्वित्तानुसारेण सम्पूणार्थं व्रतस्य हि ॥ ३७९ ॥

Transliteration

dadyādvastrāṇi gāṁ bhūmiṁ dhānyaṁ caiva sadakṣiṇam । kuryā dvittānusāreṇa sampūṇārthaṁ vratasya hi ॥ 379 ॥

13.380

Śloka

सन्तुष्टे तु गुरौ विष्णुः प्रीतो भवति नान्यथा । गुरुं सम्पूजयेत्तस्मात् तुष्ट्यर्थं चक्रपाणिनः ॥ ३८० ॥

Transliteration

santuṣṭe tu gurau viṣṇuḥ prīto bhavati nānyathā । guruṁ sampūjayettasmāt tuṣṭyarthaṁ cakrapāṇinaḥ ॥ 380 ॥

13.381

Śloka

रात्रौ तु जागरः कार्यः श्रोतव्या वैष्णवी कथा ॥ ३८१ ॥

Transliteration

rātrau tu jāgaraḥ kāryaḥ śrotavyā vaiṣṇavī kathā ॥ 381 ॥

13.382

Śloka

गीतानामसहस्रन्तु पुराणं शुकभाषितम् । पठनीयं प्रयत्नेन हरेः सन्तोषकारणम् ॥ ३८२ ॥

Transliteration

gītānāmasahasrantu purāṇaṁ śukabhāṣitam । paṭhanīyaṁ prayatnena hareḥ santoṣakāraṇam ॥ 382 ॥

13.383

Śloka

प्रत्येकं गोसहस्रस्य पठतां शृण्वतां फलम् । गीतं नृत्यन्तु वादित्रं कारयेत् पुरतो हरेः ॥ ३८३ ॥

Transliteration

pratyekaṁ gosahasrasya paṭhatāṁ śṛṇvatāṁ phalam । gītaṁ nṛtyantu vāditraṁ kārayet purato hareḥ ॥ 383 ॥

13.384

Śloka

दातव्यं गुरवे सर्वं प्रभाते देवतादिकम् । क्षमापयित्वा देवेशं गुरुञ्चैव विशेषतः ॥ ३८४ ॥

Transliteration

dātavyaṁ gurave sarvaṁ prabhāte devatādikam । kṣamāpayitvā deveśaṁ guruñcaiva viśeṣataḥ ॥ 384 ॥

13.385

Śloka

कृत्वा नैमित्तिकं सर्वं भोक्तव्यं बन्धुभिः सह ॥ ३८५ ॥

Transliteration

kṛtvā naimittikaṁ sarvaṁ bhoktavyaṁ bandhubhiḥ saha ॥ 385 ॥

13.386

Śloka

अगम्यागमने पापमभक्ष्यस्थापि भक्षणे । पापं विलयमायाति कीर्तिते वञ्जुलीदिने ॥ ३८६ ॥

Transliteration

agamyāgamane pāpamabhakṣyasthāpi bhakṣaṇe । pāpaṁ vilayamāyāti kīrtite vañjulīdine ॥ 386 ॥

13.387

Śloka

यत् पापं भूमिहरणे देवस्वहरणे तथा । मणिकूटं तुलाकूटं स्वर्णस्तेयादिकं च यत् ॥ ३८७ ॥

Transliteration

yat pāpaṁ bhūmiharaṇe devasvaharaṇe tathā । maṇikūṭaṁ tulākūṭaṁ svarṇasteyādikaṁ ca yat ॥ 387 ॥

13.388

Śloka

अज्ञानाद्यत कृतं पापं ज्ञात्वा यत् पातकं कृतम् । पूर्वजन्मार्जितं पापमिह जन्मनि यत् कृतम् ॥ ३८८ ॥

Transliteration

ajñānādyata kṛtaṁ pāpaṁ jñātvā yat pātakaṁ kṛtam । pūrvajanmārjitaṁ pāpamiha janmani yat kṛtam ॥ 388 ॥

13.389

Śloka

सर्वं च क्षयमभ्येति कृत्वैकं वञ्जुलीदिनम् । न भवेन्मानसी पीडा रोगाश्चात्यन्तदुःखदाः ॥ ३८९ ॥

Transliteration

sarvaṁ ca kṣayamabhyeti kṛtvaikaṁ vañjulīdinam । na bhavenmānasī pīḍā rogāścātyantaduḥkhadāḥ ॥ 389 ॥

13.390

Śloka

वञ्जुलीवासरे विप्र सम्प्राप्ते गरुडध्वजः । स्वस्थानाद्वसुधामेत्य कुरुते च स्थितिं विशन् ॥ ३९० ॥

Transliteration

vañjulīvāsare vipra samprāpte garuḍadhvajaḥ । svasthānādvasudhāmetya kurute ca sthitiṁ viśan ॥ 390 ॥

13.391

Śloka

वञ्जुली-विमुखं विप्रमालोक्य रविनन्दनः । कुरुते सम्विदं साकं चित्रगुप्तेन हर्षितः ॥ ३९१ ॥

Transliteration

vañjulī-vimukhaṁ vipramālokya ravinandanaḥ । kurute samvidaṁ sākaṁ citraguptena harṣitaḥ ॥ 391 ॥

13.392

Śloka

अयमेष्यति मन्दात्मा विष्णुव्रतवहिष्कृतः । वशं ममेति तत्पुण्यं मार्जयाद्धा पुराकृतम् ॥ ३९२ ॥

Transliteration

ayameṣyati mandātmā viṣṇuvratavahiṣkṛtaḥ । vaśaṁ mameti tatpuṇyaṁ mārjayāddhā purākṛtam ॥ 392 ॥

13.393

Śloka

शिरोऽर्तिर्नितरामेषा मां सदैव प्रबाधते ॥ ३९३ ॥

Transliteration

śiro'rtirnitarāmeṣā māṁ sadaiva prabādhate ॥ 393 ॥

13.394

Śloka

सर्वव्रतानां चरणं सर्वतीर्थाभिषेचनम् । सर्वदानप्रदानं च समं स्याद्वञ्जुलीव्रतम् ॥ ३९४ ॥

Transliteration

sarvavratānāṁ caraṇaṁ sarvatīrthābhiṣecanam । sarvadānapradānaṁ ca samaṁ syādvañjulīvratam ॥ 394 ॥

13.395

Śloka

तत्रान्नदानं विप्राय विधाय श्रद्धयान्वितः । प्राप्नोति पुरुषो विप्र कलुषः कृष्णसन्निधिम् ॥ ३९५ ॥

Transliteration

tatrānnadānaṁ viprāya vidhāya śraddhayānvitaḥ । prāpnoti puruṣo vipra kaluṣaḥ kṛṣṇasannidhim ॥ 395 ॥

13.396

Śloka

लक्ष्मी नारायणं देवं सौवर्णं तत्र पूजयेत् । यथाशक्त्यन्नदानं च दत्त्वा वैकुण्ठमाप्नुयात् ॥ ३९६ ॥

Transliteration

lakṣmī nārāyaṇaṁ devaṁ sauvarṇaṁ tatra pūjayet ।yathāśaktyannadānaṁ ca dattvā vaikuṇṭhamāpnuyāt ॥ 396 ॥

13.397

Śloka

अधमर्णतया कामाल्लोभाद्दम्भादपि द्विज । हन्ति त्रिपुरुषं पापं वञ्जुली पुरुषैः कृता ॥ ३९७ ॥

Transliteration

adhamarṇatayā kāmāllobhāddambhādapi dvija । hanti tripuruṣaṁ pāpaṁ vañjulī puruṣaiḥ kṛtā ॥ 397 ॥

13.398

Śloka

स एष सर्वशास्त्रार्थः सर्वबुद्धिमतां मतम् । हितं सर्वसमीचीनं यद्वञ्जुल्यामुपोषणम् ॥ ३९८ ॥

Transliteration

sa eṣa sarvaśāstrārthaḥ sarvabuddhimatāṁ matam । hitaṁ sarvasamīcīnaṁ yadvañjulyāmupoṣaṇam ॥ 398 ॥

13.399

Śloka

उपवासं यथाशक्त्या दानं ब्राह्मणपूजनम् । विधाय वञ्जुली चैवं पुरुषो याति सद्गतिम् ॥ ३९९ ॥

Transliteration

upavāsaṁ yathāśaktyā dānaṁ brāhmaṇapūjanam । vidhāya vañjulī caivaṁ puruṣo yāti sadgatim ॥ 399 ॥

13.400

Śloka

शुक्ला वैशाखमासे तु सम्प्राप्ता मधुसूदनी । द्वादशी त्रिस्पृशा नाम पापकोटिक्षयावहा ॥ ४०० ॥

Transliteration

śuklā vaiśākhamāse tu samprāptā madhusūdanī । dvādaśī trispṛśā nāma pāpakoṭikṣayāvahā ॥ 400 ॥