13.61
Śloka
वैष्णवान् जागरेऽभ्यर्च्य तीर्थं शङ्खोदकान्वितम् ।
तेभ्यो दत्त्वा स्वयं प्राश्य विद्वान् स्तोत्रादिकं पठेत् ॥ ६१ ॥
Transliteration
vaiṣṇavān jāgare'bhyarcya tīrthaṁ śaṅkhodakānvitam ।
tebhyo dattvā svayaṁ prāśya vidvān stotrādikaṁ paṭhet ॥ 61 ॥