11.791
Śloka
निष्ठीवनं च श्लेष्माणं गृहाद् दूरे विनिक्षिपेत् ।
उद्धृत्य पञ्च मृत्-पिण्डान् स्नायात् पर-जलाशये ।
अनुद्धृत्य च तत्-कर्तुर् एनसः स्यात् तुरीय-भाक् ॥ ७९१ ॥
Transliteration
niṣṭhīvanaṁ ca śleṣmāṇaṁ gṛhād dūre vinikṣipet ।
uddhṛtya pañca mṛt-piṇḍān snāyāt para-jalāśaye ।
anuddhṛtya ca tat-kartur enasaḥ syāt turīya-bhāk ॥ 791 ॥