10.30
Śloka
शैवेषु श्रीशिव-कृष्ण-भेदकाः । बृहन्-नारदीये [नार्प् १.५.७२] –
शिवे च परमेशाने विष्णौ च परमात्मनि ।
समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः ॥ ३० ॥
Transliteration
śaiveṣu śrīśiva-kṛṣṇa-bhedakāḥ ।bṛhan-nāradīye [NārP 1.5.72] –
śive ca parameśāne viṣṇau ca paramātmani ।
samabuddhyā pravarttante te vai bhāgavatottamāḥ ॥ 30 ॥