1.4
Śloka
जीयासुर् आत्यन्तिक-भक्ति-निष्ठाः
श्री-वैष्णवा माथुर-मण्डलेऽत्र ।
काशीश्वरः कृष्ण-वने चकास्तु
श्री-कृष्ण-दासश् च स-लोकनाथः ॥ ४ ॥
Transliteration
jīyāsur ātyantika-bhakti-niṣṭhāḥ
śrī-vaiṣṇavā māthura-maṇḍale’tra ।
kāśīśvaraḥ kṛṣṇa-vane cakāstu
śrī-kṛṣṇa-dāsaś ca sa-lokanāthaḥ ॥ 4 ॥